SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 ललितासहस्रनामस्तोत्रम् इति । न नुत्ता परप्रेरिता मा बुद्धिरैश्वर्यं वा यस्या इति वा । स्वतन्त्रबुद्धिः सहजैश्वर्या चेति यावत् ॥ १६१ ॥ ___ पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना। पुण्या पुण्यप्रदा कीर्तिर्यस्याः । पुण्यैः प्राक्तनैर्लभ्या । उक्तञ्च देवीभागवते तृतीयस्कन्धे 'पश्यन्ति पुण्यपुजा ये ये वेदान्तास्तपस्विनः । रागिणो नैव पश्यन्ति देवी भगवतीं शिवाम् ॥' इति । पुण्ये विहितकर्मरूपे श्रवणकीर्तने यस्याः । षष्ठ्यर्थश्चरित्रद्वारकः सम्बन्धः । पुलोमजार्चिता बन्धमोचनी बर्बरालका ॥ १६२ ॥ पुलोमतो जातया इन्द्राण्यार्चिता । तथा च देवीभागवते षष्ठस्कन्धे कथा स्मर्यते । नहुषे स्वाराज्यं शासति शक्रप्राप्त्यर्थमिन्द्राण्या भगवत्याराधितेति 'इत्युक्ता सा तदा तेन शक्रपत्नी सुमानसा । जग्राह मन्त्रं विधिवगुरोर्देव्याः सुसाधनम् ॥ विद्यां प्राप्य गुरोर्देवी देवीं त्रिपुरसुन्दरीम्। सम्यगाराधयामास बलिपुष्पार्चनैः शुभैः ॥' इत्यादि । बन्धमाविद्यकं मोचयति । कारागृहादपि मोचयति । तदुक्तं हरिवंशे अनिरुद्धेन 'एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि शाङ्करि । त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ॥ अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे। सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसि ॥ इत्यारभ्य 'एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमा। बद्धं बाणपुरे वीरमनिरुद्धं व्यमोचयत् ॥ पुण्या पुण्यप्रदा कीर्तिर्यस्याः सा । कीत्यॆ इति ॥ पुण्यैः सुकृतैर्लभ्या प्राप्या । लभ्यायै इति ॥ पुण्यं पुण्यप्रदं नामादीनां श्रवणं कीर्तनं यस्याः सा । कीर्तनायै इति ॥ पुलोमजा इन्द्राणी तया अर्चिता । अर्चितायै इति ॥ बन्धं आणवादिरूपं मोचयतीति सा | मोचिन्यै इगि ॥ बन्धुराः उन्नतानता अलका: चूर्णकुन्तला: यस्याः सा । अलकायै इति ॥ १६२ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy