________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
7
तत्रेति । तत्र अधर्मीभूतायाम् । ललितासहस्रनामोक्त्यभावविशेष्यकः संशय इत्यर्थः । स च चतुष्कोटिक इत्याह- किंवेत्यादिना सार्धेन । विस्मृतिप्रयुक्तत्वमेकः प्रकारः । सर्वज्ञस्य विस्मरणासम्भवात्प्रकारान्तरमाह - ज्ञात्वा वेति । उपेक्षा इष्टानिष्टोभयविषयकप्रवृत्तिनिवृत्त्यौदासीन्येनावस्थानम् ॥ ९ ॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १० ॥
मित्रशत्रुभृत्योदासीनभेदेन चतुर्विधेषु जीवेषु भृत्यकोटिप्रविष्टस्य शिष्यस्योदासीनत्वायोगो भक्तिजिज्ञासितार्थोपेक्षायां देशिकेन्द्रस्य कृपालुत्वहानिश्चेत्यतस्तृतीयं प्रकारमाह-मम वेति । नास्तीत्यनेन सामयिकाभाव उक्तो नात्यन्ताभावः । तथात्वे चतुर्थकोटेरुत्थानायोगात् । अनधिकारिणं प्रत्यनुक्तेर्भृत्यत्वविघटकतायाः कृपालुत्वविघटकत्वस्य चायोगादिति भावः । तदुक्तं बोधसारे
'तत्तद्विवेकवैराग्ययुक्तवेदान्तयुक्तिभिः
1
श्रीगुरुः प्रापयत्येव नपद्ममपि पद्मताम् । प्रापप्य पद्मतामेनं प्रबोधयति तत्क्षणात् । तस्मात्सर्वप्रयत्नेन सेव्यः श्रीगुरुभास्करः ॥
इत्युक्तम् । तत्र नपद्ममित्येकं पदम् । नकारेणायं समासः । अयोग्येऽपि योग्यतामापाद्य श्रीगुरुसूर्यो बोधयतीति समुदायार्थः । अतो योग्यतायामपि गुरुर्दद्यादेवेत्याशयेन कोटित्रयं स्वयमेव निरस्य का पुनश्चतुर्थी कोटिरित्यनवधार्य पृच्छतिकिमर्थमिति । भवत्कर्तृकोक्त्यभावः किंप्रयुक्त इत्यर्थः । कारणं चतुर्थी कोटिम् । इतरकोटीनां स्वेनैव निरस्तत्वादिति भावः ॥ १० ॥
सूत उवाच
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभवम् ॥ ११ ॥
अथैकश्लोकः सूतोक्तिरूपः । भारते- 'नापृष्टः कस्यचिद् ब्रूयादिति वेदानुशासन' मिति निषेधादपृच्छकाय किमपि न वक्तव्यम् । यत्तु 'अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभव - मिति तदुत्तरार्धं तदपि श्रद्धालुप्रश्नासमर्थशिष्यपरम् । श्रद्धाभावे हानिस्मरणात् । यदाह बोधायन:
'अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः । तस्मादश्रद्धया दत्तं हविर्नाश्नन्ति देवताः ॥ इष्ट्वा दत्त्वापि वा मूर्खः स्वर्गं नहि स गच्छति । शङ्काविहितचारित्रो यः स्वाभिप्रायमाश्रितः ॥ शास्त्रातिगः स्मृतो मूर्खो धर्मतन्त्रोपरोधनात्।'
For Private and Personal Use Only