________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललितासहस्रनामस्तोत्रम् इति । श्रुतिरपि 'श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः' इत्यादि । ततश्च श्रद्धाभावे पृच्छकायापि न वक्तव्यं किमुतापृच्छकाय । तत्सत्त्वे तु यदि शिष्यः प्रश्ने न समर्थः तदा प्रश्नमप्रतीक्ष्यैव गुरुर्वदेदिति स्थितिः । प्रकृते त्वगस्त्य: श्रद्धालुः प्रश्ने समर्थश्च अथापि किमिति न पृच्छतीति चिन्तयानो नापृष्ट इति निषेधाद्भीतो देशिकसार्वभौमो भगवान् हयग्रीवः शिष्यकृतशुश्रूषया वशीकृतो विवक्षुरपि भक्तिपूर्वकप्रश्नाभावकृतविलम्बादियन्तं कालं दुःखित इवाभूत् । अधुना तु न तथेत्याह सूतः - इति पृष्ट इति । चतुर्थकोटिविषयकप्रश्नकर्मीभूत इत्यर्थः । प्रच्छधातोर्द्विकर्मकतया कोटिवद्गुरोरपि कर्मत्वात् । प्रहृष्ट: विलम्बापगमादिति शेषः । तपोभिर्यज्ञादिभिः पापक्षये सत्यङ्कुरितविविदिषाकत्वादस्ति श्रद्धेति योग्यतां प्रदर्शयति- तापसमिति ।चित्तवृत्तिनिरोधकारणीभूतवायुवृत्तिनिरोधशीलत्वादपि योग्यतामाह- कुम्भसंभवमिति । कुम्भस्य कुम्भकस्य सम्यक् चिरकालं भवः स्थितिर्यस्मिंस्तमित्यर्थः । रेचकपूरकयोः सार्वजनीनतया सुलभत्वान्निरोधपदवाच्यत्वाभावाच्च तत्परित्यागेन कुम्भकस्यैव ग्रहणम् ॥ ११ ॥
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥१२॥ अथ सार्धेः षोडशभिः श्लोकैर्हयग्रीवोक्तिः । पूर्वश्लोक एव हयग्रीवः प्राहेत्युक्तत्वान्नैतदारम्भे हयग्रीव उवाचेत्युक्तिः । एवमम्बावचनेऽप्युत्तरत्र ज्ञेयम् । भत्रभिमतदेव्याराधनं गृहिण्या क्रियमाणमप्यनुकूलदाम्पत्यघटकं सत्पल्या उपास्तियोग्यतापादकमिति व्यञ्जयन् विवक्षितम प्रतिजानीते- लोपामुद्रापत इति । अत एव भगवत्यैव त्रिशत्यां वक्ष्यते
पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः।
अयं च नितरां भक्तस्तस्मादस्य ववस्व तत् ॥ इति । अत्र भर्तृनिष्ठभक्तेः पत्न्यानुकूल्यस्य समुच्चयार्थकश्चकार इति तत्रैव वक्ष्यामः । अथवा न केवलं भक्तिप्रश्नावेव योग्यतावच्छेदको । विद्योपास्तिविरहे तयोः सत्त्वेऽपि उपदेष्टुर्योगिनीशापाम्नानात् । अतस्तत्साहित्यद्योतनायेदं विशेषणम् । अथवा लोपामुद्राशब्दस्तद्विद्यापरस्त्रिपुरसुन्दरीपरो वा । सैव पतिरुपास्या यस्येत्यर्थः । न चागस्त्यविद्योपासकस्य कथं तथात्वव्यपदेशः । शाखान्तराधिकरणन्यायेन विद्ययोरभेदाभिप्रायेणोपपत्तेः । न च विद्यापदवाच्ययोरुपास्त्योरभेदेऽप्यगस्त्यलोपामुद्रासंज्ञयोर्मन्त्रयोर्भेद एवेति वाच्यम् । अगस्त्योपासितेत्यादियौगिकशब्दैकदेशानां तेषां संज्ञात्वाभावेन भेदकत्वायोगात् । न चाक्षरन्यूनाधिकभावाभ्यां सुषिसुषिरयोरिव भेदः। तयोः पदभेदकत्वेऽपि मन्त्रभेदकत्वाभावात। अत एव 'अप्स्वन्तरमृत मिति मन्त्रस्य
For Private and Personal Use Only