________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललितासहस्रनामस्तोत्रम् विभावनम्, मानसी देवपूजा वा तस्य क्रम इतिकर्तव्यता । बहिर्यागः पात्रासादनादिशान्तिस्तवान्तः कर्मसमूहः ॥ ४ ॥
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तितः।
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५ ॥ स एवाष्टाष्टकादिघटितो महायागः । एते चास्माभिर्वरिवस्याप्रकाशे पूजाप्रकरण एव निरूपिताः। पुरश्चरणेति । पुर: मन्त्रोपास्तेरादौ दीक्षोत्तरकालं चरणं परिचर्या । जपस्य लक्षणमवस्थापञ्चक-शून्यषट्क-विषुवत्सप्तक-चक्रनवकविभावनादिरूपं चिह्नम् । तच्चास्माभिर्वरिवस्यारहस्ये प्रथमेंऽश एवोक्तम् ॥ ५ ॥
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः। चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ ६ ॥ रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥७॥ होमेति । होमानां तव्याणां च तद्विधीनां द्रव्यपरिमाणादिरूपाणां च क्रमः शब्दमध्ये पादविक्षेपो निबन्धनमिति यावत् । चक्रराजस्येति टच्प्रत्ययान्तम् । बिन्द्वादिनवचक्रात्मकस्येति तदर्थः । विद्यायाः पञ्चदश्याः षोडश्या वा । श्रीदेव्याः त्रिपुरसुन्दर्याः । देशिकात्मनोः गुरुशिष्ययोः तादात्म्यं तद्ब्रह्मैव आत्मा स्वरूपं यस्य तत्तदात्म 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति वचनात् । तस्य भाव इत्यर्थे ब्राह्मणादित्वात्ष्यञ् । सर्वेषामेकब्रह्मरूपता । अभेद इति यावत् । मन्त्रस्य निगर्भार्थवर्णनावसरे वरिवस्यारहस्येऽस्माभिरुक्तोस्य प्रकार: । स्तोत्रेति । बहुविधाः पञ्चमीस्तवराजादिरूपाः ॥ ६-७ ॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥ मन्त्रिणी मन्त्रो राजाधिकारोपयोगिनी मननक्रिया सास्यास्तीत्यर्थे इनिः । नान्तत्वान्डीप् । अमात्येत्यर्थः । सा च तन्त्रेषु राजश्यामलेत्युच्यते । दण्डिनी दण्डो दमनसाधनं तद्वती । सा च तन्त्रेषु वाराहीति प्रसिद्धा, ते च ते देव्यौ च तयोः ॥ ८॥
तत्र मे संशयो जातो हयग्रीव दयानिधे।। किंवा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥९॥
For Private and Personal Use Only