________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
191
सौभाग्यभास्कर-बालातपासहितम् मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता। मेदसि धातुविशेषे निष्ठा स्थितिर्यस्याः । मधुना मद्येन क्षौद्रेण वा प्रीता । तथा च श्रुतिः- 'यन्मधुना जुहोति महतीमेव तद्देवतां प्रीणातीति । महादेवीं प्रीणयतीत्यर्थः । बन्धिन्यादिभिर्लम्बोष्ठ्यन्ताभिः षड्भिः समन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १५६ ॥ दध्ना अन्नं दध्यन्नम् । 'अन्नेन व्यञ्जन मिति समासः । दधिसिक्त ओदन इति यावत् तस्मिन्नासक्तं हृदयं यस्याः । काकिन्या रूपं स्वरूपं धारयतीति तथा ॥ १५६ ॥
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता। मूलाधाराख्ये चतुर्दले कमले साकिन्याख्या योगिनी तिष्ठति । तदुक्तम्
'मूलाधारस्थपने श्रुतिदललसिते पञ्चवक्त्रां त्रिनेत्रां धूम्राभामस्थिसंस्थां सृणिमपि कमलं पुस्तकं ज्ञानमुद्राम् । बिभ्राणां बाहुदण्डैः सुललितवरदापूर्वशक्त्या वृतां तां
मुगान्नासक्तचित्तां मधुमदमुदितां साकिनी भावयामः॥ इति । मूलाधाराख्येऽम्बुजे आरूढा तत्कर्णिकायां स्थिता । पञ्चसंख्यानि वक्त्राणि यस्याः । अस्थि अस्थिषु वा संस्थिता ।
अङ्कशादिप्रहरणा वरदादिनिषेविता ॥ १५७ ॥ अङ्कशादीनि चत्वारि प्रहरणानि यस्याः । वरदादिभिः सरस्वत्यन्ताभिश्चतसृभिः शक्तिभिर्निषेविता || १५७ ॥
मेदसि मेदोधातौ नितरां तिष्ठतीति सा | निष्ठायै इति || मधुना प्रीता सन्तुष्टा । प्रीतायै इति || बन्धिनी आदिर्यासां ताभिः शक्तिभिः समन्विता । अन्वितायै इति ॥
दधना सहिते ओदने आसक्तं हृदयं मनो यस्याः सा । हृदयायै इति ॥ काकिन्या रूपं धारयतीति सा । धारिण्यै इति ॥ १५६ ॥
मूलाधाराम्बुजे स्वाधिष्ठानाधो विद्यमाने चतुर्दले आरूढा स्थिता | आरूढायै इति ॥ पञ्चसख्या [का]नि वक्त्राणि यस्याः सा | वक्त्रायै इति ॥ अस्थिनि अस्थिधातौ संस्थिता । संस्थितायै इति ॥ ____ अङ्कुशः आदौ येषां तानि प्रहरणान्यायुधानि यस्याः सा । प्रहरणायै इति ॥ वरदा आदि यासा ताभिः शक्तिभिर्निरन्तरं सेविता । सेवितायै इति ॥ १५७ ॥
For Private and Personal Use Only