SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठशतकं नाम सप्तमी सुषुम्णा कला -गुडान्नप्रीतमानसा। गुडेन मिश्रमन्नं गुडान्नम् । 'भक्ष्येण मिश्रीकरण मिति समासः । तेन प्रीतं मानसं यस्याः । समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १५४ ॥ समस्तेभ्यो भक्तेभ्यः सुखं ददातीति तथा । लाकिन्याख्याया अम्बायाः स्वरूपमस्याः ॥ १५४ ॥ स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । स्वाधिष्ठानाख्ये षड्दले पद्मे काकिन्याख्या योगिनी तिष्ठति । तदुक्तम् 'स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां हस्ताभ्यां धारयन्तीं त्रिशिखगुणकपालाभयान्यात्तगर्वाम् । मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीमुख्ययुक्तां पीतां दध्योदनेष्टामभिमतफलदां काकिनी भावयामः॥ इति । स्वाधिष्ठानाख्यमम्बुजं गता प्राप्ता | चतुर्भिर्वक्त्रैर्मनोहरा रुचिरा | शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ॥ १५५॥ शूलादिभिरुक्तसंख्याकायुधैः सम्पन्ना । पीतो वर्णो यस्याः सा । अतीव सौन्दर्यादिकृतो गर्यो यस्याः । सज्जातो गर्वधातोर्निष्ठया वातिगर्विता ॥ १५५ ॥ गुडेन मिश्रितान्ने प्रीतं सन्तुष्टं मानसं यस्याः सा । मानसायै इति ॥ समस्तेभ्यो भक्तेभ्यः सुखं ददातीति सा | सुखदायै इति || लाकिन्यम्बायाः स्वरूपम् अस्याः । स्वरूपिण्यै इति ॥ १५४ ॥ स्वाधिष्ठानाम्बुजं लिङ्गदेशस्थितं षड्दलम्, तद्गता प्राप्ता । गतायै इति ॥ चतुःसंख्यैर्वक्त्रैर्वदनै: मनोहरा शोभमाना | मनोहरायै इति || ____ शूलं आदिर्येषां तैरायुधैः सम्पन्ना युता । सम्पन्नायै इति ॥ पीतोवर्णः अङ्गकान्तिर्यस्या. सा वर्णायै इति ॥ अत्यन्तं सौन्दर्यादिना गर्वोऽभिमानोऽस्याः सञ्जात इति सा । गर्वितायै इति ॥ १५५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy