SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 ललितासहस्रनामस्तोत्रम् मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी । मुद्गसूपमिश्र ओदने आसक्तं चित्तं यस्याः । तल्लक्षणं च कुमारसंहितायाम् 'सुशालितण्डुलप्रस्थं तदर्घ मुद्गभिन्नकम् । चतुःपलं गुडं प्रोक्तं तन्मानं नालिकेरकम्॥ मुष्टिमात्रं मरीचं स्यात्तदर्ध सैन्धवं रजः। तदर्ध जीरक विद्यात्कुडवं गोघृतं विदुः॥ गोक्षीरेण स्वमात्रेण संयोज्या कमलासनम् । मन्दाग्निपचनादेव सिद्धान्नमिदमुत्तमम् ॥ इति । साकिन्यम्बायाः स्वरूपमस्याः भ्रूमध्ये आज्ञाचक्रं नाम द्विदलं पद्मं तत्र हाकिन्याख्या योगिनी तिष्ठति । तदुक्तम् 'भ्रूमध्ये बिन्दुपट्टे दलयुगकलिते शुक्लवर्णा कराब्जैर्बिभ्राणां ज्ञानमुद्रां डमरुकममलामक्षमालां कपालम् । षट्चक्राधारमध्यां त्रिनयनलसितां हंसवत्यादियुक्तां हारिद्रान्नैकसक्तां सकलसुखकरी हाकिनी भावयामः ॥ इति । आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १५८ ॥ आज्ञाचक्राब्जमेव निलयो यस्याः । शुक्लो वर्णो यस्याः । षट्संख्यान्याननानि यस्याः ॥ १५८ ॥ मासंस्था हंसवती मुख्यशक्तिसमन्विता । मज्जशब्दो नकारान्तः पुंलिङ्ग । 'सारो मज्जा नरीत्यमरात् । तदुत्तरमाङ्प्रश्लेषण मज्ज्ञि आसमन्तात्सम्यक् तिष्ठतीति विग्रहे मज्जधात्वभिमानिनीत्यर्थः । आबन्तो वा मज्जाशब्दः । तथा 'चिद्विल्वफलमज्जेयम्, 'चिन्मज्जारूपमखिलं निजमज्जाचमत्कृति' - रित्यादेज्ञार्नवासिष्ठे प्रयोगात् । 'मज्जा स्यान्मज्जया सहेति कोशाच्च टाबन्त एव वा । तेन नाप्रश्लेष: । मुखे भवा मुख्या हंसवत्येव मुख्या आदिर्ययोस्ताभ्यां शक्तिभ्या हंसवतीक्षमावतीभ्यां समन्विता । मुद्गमिश्रितौदने आसक्तं चित्तं यस्याः सा | चिता(त्ता)यै। इति ॥ साकिन्यम्बायाः स्वरूपम् अस्याः । स्वरूपिण्यै इति ॥ आज्ञाचक्राब्जं भ्रूमध्यस्थं द्विदलं तन्निलयो यस्याः सा | निलयायै इति ॥ शुक्ल: वर्ण: अङ्गकान्तिर्यस्याः सा । वर्णायै इति ॥ षट्संख्यान्याननानि यस्याः सा । अ{[]ननायै इति ॥ १५८ ॥ मज्जि मज्जात्मकधातौ आसमन्तात् सम्यक् तिष्ठतीति सा । संस्थायै इति ॥ हसवती मुख्यामुख्यैन वा ययोः शक्त्योः तादृशाभ्यां समन्विता । समन्वितायै इति || For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy