________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
187
सौभाग्यभास्कर-बालातपासहितम् अनाहताब्जनिलया श्यामाभा वदनद्वया । हृदये द्वादशदलकमलेऽनाहताख्यचक्रे राकिण्याख्या योगिनी तिष्ठति । तस्या ध्यानं यथा
हृत्पने भानुपत्रे द्विवदनलसितां दंष्ट्रिणीं श्यामवर्णामक्षं शूलं कपालं डमरुमपि भुजैर्धारयन्तीं त्रिनेत्राम् ॥ रक्तस्थां कालरात्रिप्रभृतिपरिवृतां स्निग्धभक्तैकसक्तां
श्रीमद्वीरेन्द्रवन्द्यामभिमतफलदां राकिनी भावयामः॥ इति । अनाहताब्नं तत्कर्णिका निलयो यस्याः । श्यामा षोडशवार्षिकी तया तुल्या श्यामाभा । श्यामा आभा कान्तिर्यस्या इति वा | वदनयोर्द्वयं यस्याः ।
दंष्ट्रोज्ज्वलाक्षमालादिधरा रुधिरसंस्थिता ॥ १५१॥ दंष्ट्राभिर्वराहसमानदन्तैरुज्ज्वला शोभमाना । अक्षमाला आदिर्येषां तेषां चतुर्णामायुधानां धरा । पचाद्यच् । कर्मण्यणि धारेति स्यात् । उक्तश्लोके यदि चक्रं शूलमित्येव पाठस्तदाऽक्षस्य रथाङ्गस्य मां शोभा लाति आदत्त इत्यक्षमालं चक्रमित्याख्येयम् । रुधिरे शोणिते संस्थिता तदभिमानित्वेन ॥ १५१ ॥
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया । अस्ति कालरात्र्याख्या काचन शक्तिः । तदुक्तं वराहपुराणे मूर्तित्रयं प्रकृत्य
'या सा नीलगिरिं याता तपसे धृतमानसा ।
रौद्री तमोभवा शक्तिस्तस्याः शृणु धरे व्रतम् ॥ इत्यारभ्य
'रौद्री तपोरता देवी तामसी शक्तिरुत्तमा ।
संहारकारिणी नाम्ना कालरात्रीति तां विदुः॥' इति । सा आदिर्यासां तासां ठंकार्यन्तद्वादशक्तीनामोघेन समूहेन वृता । पत्रेषु वेष्टिता । स्निग्धो घृतप्लुत ओदनः प्रियो यस्याः ।
अनाहताब्कं हृदि स्थितं द्वादशदलम्, तन्निलयो यस्याः सा । निलयायै इति ॥ श्यामा आभा कान्तिर्यस्याः सा । आभायै इति ॥ वदनयोर्द्वयं यस्याः सा । द्वयायै इति ॥
दंष्ट्राभिर्वराहसमानदन्तैरुज्ज्वला शोभमाना । उज्ज्वलायै इति ॥ अक्षमाला जपमाला तदाद्यानामायुधानां धरा । धरायै इति ॥ रुधिरे रक्तधातौ संस्थिता । संस्थितायै इति ॥ १५१ ॥
कालरात्रिरादौ यासां तादृशशक्त्यौघेन वृता । वृतायै इति ॥ स्निग्धं घृतयुतं यदोदनं तत्प्रियं यस्याः सा | प्रियायै इति ॥
For Private and Personal Use Only