SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 ललितासहस्रनामस्तोत्रम् वक्त्रेणैकेन युक्तां पशुजनभयदां पायसान्नैकसक्तां त्वक्स्थां वन्देऽमृताद्यैः परिवृतवपुष डाकिनी वीरवन्द्याम् ॥ इति । विशुद्धिचक्रं षोडशदलकमलस्य कर्णिकैव निलयो यस्याः । आरक्तो वर्णो यस्या इति पञ्चाक्षरं नाम | आङीषदर्थे । तेन 'श्वेतरक्तस्तु पाटल' इत्युक्तलक्षणकपाटलीकुसुमसमानवर्णेत्यर्थः । लाकिनीप्रकरणगतनाम्ना पौनरुक्त्याभावाच्च । त्रीणि लोचनानि यस्याः । खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ १४९ ॥ खट्वाङ्गं खट्वापादः । दण्डारोपितनरकपालं वा । तदादि येषां चतुर्णां मध्ये तानि प्रहरणान्यायुधानि यस्याः । वदनं च तदेकं च । 'पूर्वकालैके ति समासः । अनित्यत्वान्न पूर्वनिपातः । तेन समन्विता युक्ता ॥ १४९ ॥ पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी। पयोविकारः पायसश्च तदन्नं च तत्परमान्नं प्रियं यस्याः । त्वचि धातौ तिष्ठतीति त्वक्स्था । तदभिमानित्वात् । अद्वैतविद्याविहीनाः पशवस्त एव लोकास्तेषां भयङ्करी । 'योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरिति श्रुतेः । 'द्वितीयाद्वे भयं भवति', 'य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवतीति च श्रुतेः। अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ १५० ॥ अमृताख्या शक्तिरादिर्यासां ताभिः षोडशभिर्महाशक्तिभिः 'अमृतकर्षिणीन्द्राणी'त्यादिभिरक्षरान्ताभिरेकैकदलनिष्ठाभिः संवृता । उक्तञ्च स्वच्छन्दतन्त्रे 'तस्मादेकाङ्गुलादूर्ध्व विशुद्ध षोडशाक्षरम् । मध्यगा डाकिनी बाह्यपत्रेषु परमेश्वरी ॥ अमृताद्यक्षरान्ताः स्युश्चन्द्रबिम्बं तदूर्ध्वतः। इति । नवानां विशेषणानां विशेष्यं नाम्ना निर्दिशति-डाकिनीश्वरीति । डाकिन्याख्येश्वरीत्यर्थः ॥ १५० ॥ खट्वाङ्गः खट्वा पादः तदादीनि प्रहरणानि यस्याः सा।प्रहरणायै इति ॥ वदनैकेन समन्विता । समन्वितायै इति ॥ १४९ ।। पायसं पयोविकारं अन्नं प्रियं यस्याः सा । प्रियायै इति ॥ त्वचि त्वग्धातो तिष्ठतीति सा । त्वक्स्थायै इति ॥ पशवः दुष्टचिता ये लोकाः तेषां भयं करोतीति सा | कार्ये इति ॥ अमृता आदिर्यासां तादृशीभिर्महाशक्तिभिः समन्ताद्वृता परिवृता । वृतायै इति ॥ डाकिन्याख्या ईश्वरी तच्चक्राधिष्ठात्री । ईश्वर्यै इति ॥ १५० ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy