________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
184
ललितासहस्रनामस्तोत्रम् कालः कण्ठो यस्येश्वरस्य तस्य स्त्री । उक्तञ्च वायुपुराणे
'पश्यतां देवसंघानां पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं कालकण्ठस्ततोऽस्म्यहम् ॥ इति देवीपुराणेऽष्टषष्टिशिवतीर्थप्रकरणे कालञ्जरे कालकण्ठ इति स्मर्यते । तेन तत्क्षेत्राधिष्ठात्रीत्यर्थः । मधुरोऽस्फुटो ध्वनि: कल: स एव कालः स्वार्थिकोऽण् काल: कण्ठो यस्या इति वा । अङ्गगात्रकण्ठेभ्य वा डीप् । दारुकासुरवधार्थं 'ससर्ज काली कामारिः कालकण्ठी कपर्दिनी मिति लैङ्गे कथायाः प्रसिद्धेस्तद्रूपा वा । कलपदादेव स्वार्थिकोऽण्वा । मञ्जूध्वनिरिति तदर्थः । कान्तिरस्या अस्तीति कान्तिमती । परमेश्वरौ सृष्ट्यौन्मुख्येन क्षोभयतीति क्षोभिणी । तदुक्तं विष्णुपुराणे
__'प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः।
क्षोभयामास भगवान्सर्गकाले व्यपाश्रितः॥ इति । यद्वा । मनःक्षोभात्कांश्चिद्गणानजनयदिति क्षोभिणी । तदुक्तं वराहपुराणे मूर्तित्रयं प्रकृत्य
'या मन्दरं गता देवी तपस्तप्तुं तु वैष्णवी । तस्यास्तपन्त्याः कालेन महता क्षुभितं मनः ॥ तस्मात्क्षोभात्समुत्तस्थुः कुमार्यः सौम्यदर्शनाः। नीलकुञ्चितकेशान्ता बिम्बोष्ठ्यः पद्मलोचनाः॥ इन्दीवरसमा दामनूपुराढ्याः सुवर्चसः । एवंविधाः स्त्रियो देव्यः क्षोभिते मनसि द्रुतम् ॥
उत्तस्थुः शतसाहस्राः कोटिशो विविधानना।' इत्यादि । सूक्ष्म दुर्जेयं रूपमस्याः । 'सूक्ष्मात्सूक्ष्मतर नित्यम्', 'अणोरणीया निति च श्रुतेः । सूक्ष्म इति होमविशेषस्य संज्ञा । तन्त्रराजे- 'नित्यानित्योदिते मूलाधारमध्येऽस्ति पावक'इत्यादिना 'एवं द्वादशधा होममक्षरैः स्यादुदीरितै रित्यन्तेन ग्रन्थेनोक्ता तदेव रूपमस्या इति वा । देव्या अपि त्रीणि रूपाणि स्थूलसूक्ष्मपरभेदात्सन्त्येवेति व्यक्तमेव ॥ १४७ ॥
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता। षष्ठीतिथिनित्या जालन्धरपीठाधिष्ठात्री वज्रेश्वरी । अथवा श्रीपुरस्य द्वादशः प्राकारो वज्रमणिमयस्तस्यैकादशस्य मध्ये वज्राख्या नदी तदधिपतिः । उक्तञ्च दुर्वाससा
'तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्यत्कलहंसीकुलकलक्वणितपुष्टा ॥ वज्रेश्वरी देवीरूपा । ईश्वर्यै इति ॥ वामा सुन्दरी चासौ देवी च । देव्यै इति ॥ वयसां या अवस्था: बाल्यादिरूपाः । ताभिर्विशेषेण वर्जिता । वर्जितायै इति ॥
For Private and Personal Use Only