________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
181 शान्तिः स्वस्तिमती कान्तिनन्दिनी विघ्ननाशिनी ॥ १४५ ॥ शान्तिशब्देन वायवीय: कलाविशेषो वा कथ्यते । तदुक्तं शैवागमे
'मलमायाविकारौघशान्तिः पुंसः पुनर्यया ।
सा कला शान्तिरित्युक्ता साधिकारास्पदं पदम् ॥ इति । बृहत्पाराशरस्मृतावपि
दशपञ्चाङ्गुलव्याप्तं नासिकाया बहिःस्थितम् ।
जीवो यत्र विशुध्येत सा कला षोडशी स्मृता ॥ इति प्रकृत्य 'सा च शान्तिः प्रकीर्तिते'त्यन्तम् । सुष्ठु अस्ति: सत्ता तद्वत्त्वेन वा स्वस्तिमती । सत्तायाः शोभनत्वञ्च पारमार्थिकत्वं व्यावहारिकसत्ताधिकत्वम् । प्राणा वै सत्यं तेषामेष सत्यम् 'तत्सत्यस्य सत्य मिति च श्रुतेः । 'स्वस्त्याशी:क्षेमनिष्पापपुण्यमङ्गलवाचक' इति रत्नकोशः । 'स्वस्तीत्यविनाशिनामेति यास्कश्च । कान्तिशब्देनेच्छाशक्तिर्वोच्यते | नन्दयितृत्वान्नन्दिनी कामधेनुवंशोद्भवो गोविशेषो वा गङ्गास्वरूपा वा । विशेषेण जन्तीति विघ्ना विद्यान्तरायास्तान्नाशयितुं शीलमस्यास्तथा ॥ १४५ ॥
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी । तेजसामादित्यादीनामाधारभूतत्वात्तेजोवती । 'एतस्मिन् खल्वक्षरे गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत' इति श्रुतेः । त्रीणि सोमसूर्याग्निरूपाणि नयनानि नेत्राणि यस्याः । क्षुभ्नादेराकृतिगणत्वात्संज्ञाशब्दत्वेऽपि णत्वाभाव: । वौषडिति शब्दस्य त्रिनयनेति संज्ञा नामपारायणे प्रसिद्धा तद्रूपा वा । यद्वा नयनशब्दो लक्षणया प्रमाणपरः । नयति प्रापयति प्रमाणमिति व्युत्पत्तेश्च । तथा च शाण्डिल्यसूत्रे प्रयोग:'त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रव दिति । त्रीणि प्रत्यक्षानुमानशब्दरूपाणि प्रमाणानि यस्याः । यद्विषयकप्रमाजनने त्रिविधमेव प्रमाणम् । श्रवणरूपं शाब्दज्ञानम् । मननं यौक्तिकत्वादानुमानिकम् । निदिध्यासनं तु स्वानुभवरूपं प्रत्यक्षमेव । परन्तु विजातीयप्रत्ययैः कदाचिन्मध्ये मध्येऽन्तरितम् । एतदभिप्रायेणैव शाण्डिल्यमुनिना शब्दमारभ्यैव प्रमाणानि गणितानि । उपमानस्य शक्तिग्रहमात्रविषयकत्वेन प्रकृतानुपयोगात् । अत एवोक्तं मनुस्मृतौ
'प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सते ॥ शान्तिः शमरूपा । शान्त्यै इति ॥ स्वस्ति कल्याणमस्या अस्तीति सा । मत्यै इति ॥ कान्तिषुतिरूपा । कान्त्यै इति ॥ भक्तान् नन्दयतीति सा । नन्दिन्यै इति ॥ भक्तानां विघ्नं नाशयतीति सा | नाशिन्यै इति ॥ १४५ ॥
तेजः अस्या अस्तीति सा । वत्यै इति ॥ त्रीणि नयनानि यस्याः सा | नयनायै इति || लोलाक्षीणां सुन्दरस्त्रीणामपि कामः दर्शनाभिलाष: यस्य ईदृशं रूपमस्येति सा । रूपिण्यै इति ।
For Private and Personal Use Only