________________
Shri Mahavir Jain Aradhana Kendra
180
www.kobatirth.org
ललितासहस्रनामस्तोत्रम् कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्बा माता । कुत्सितो मारगणः स्मरविकारसमूहो येषां तन्नाथानम्बते बघ्नातीति वा । 'अब बन्धन' इति धातुः । कुमास्शब्देन तद्देवत्योऽहङ्कारो वा गृह्यते । तदुक्तं वराहपुराणे
'पुरुषो विष्णुरित्युक्तः शिवो वा नाम नामतः अव्यक्तं तु उमादेवी श्रीर्वा पद्मनिभेक्षणा ॥ तत्संयोगादहङ्कारः स च सेनापतिर्गुहः ॥
इति । तद्गणैर्नाथानतीवाहन्ताविष्टानम्बत इति । तुष्ट्यादीनि सप्त नामानि तोषपोषज्ञानधैर्यशमकल्याणवत्त्वकमनीयतावाचकानि सन्ति तादृशभगवतीस्वरूपत्वाभिप्रायेण तामप्यभिदधति । तथा च मार्कण्डेयपुराणे
'या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥'
इत्यादि । मल्लारिमाहात्म्येऽपि
'यो देवः सर्वभूतेषु तोषरूपेण संस्थितः । नमस्तस्यै नमस्तस्यै नमस्तस्मै नमो नमः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि । देवीभागवते तृतीयस्कन्धे
'बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां साम्बा प्रत्यक्षं तन्निदर्शनम् ॥'
इति । पद्मपुराणे देवीक्षेत्रगणनावसरे- 'तुष्टिर्वस्त्रेश्वरे तथा । देवदारुवने पुष्टिः धृतिः पिण्डारकक्षेत्रे' इत्येवं तत्तत्क्षेत्राधिष्ठात्र्या भगवत्या नामेत्युक्तम् । मतिस्तु वायुपुराणे निरुच्यते
'बिभर्ति मानं मनुते विभागं मन्यतेऽपि च । पुरुषो भोगसम्बद्धस्तेन चासौ मतिः स्मृतः ॥
इति । तस्याश्च देवीरूपता सूतसंहितायाम्–
'यानुभूतिरुदिता मतिः परा वेदमाननिरता शुभावहा । -तामतीव सुखदां वयं शिवां केशवादिजनसेवितां नुमः ॥ इत्यादि ।
कुमारगणनाथयोः स्कन्दगणेशयोरम्बा माता । अम्बायै इति ॥ तुष्टिः तोषरूपा । तुष्ट्यै इति ॥ मतिर्ज्ञानरूपा | मत्यै इति ॥ धृतिधैर्यरूपा । धृत्यै इति ॥
For Private and Personal Use Only