SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 ललितासहस्रनामस्तोत्रम् इति । क्रोधभट्टारका अप्याहू: 'अन्नप्राणमनःप्रबोधपरमानन्दैः शिरःपक्षयुक् पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिद्धीकृतैः । कोशैः पञ्चभिरेभिरेव भवतीमेतत्प्रलीनामिति ज्योतिः प्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ इति । निःसीममहिमा नित्ययौवना मदशालिनी ॥ १४२॥ निष्क्रान्तः सीमानं सीमां वा निःसीमा निःसीमो वा निरवधिको महिमा यस्याः । 'मन' इति निषेधान्न डीप् । वैकल्पिको डाप् । अतो 'निःसीममहिम्ने नम' इति वा 'निःसीममहिमायै नम' इति वा प्रयोगः । कालत्रयेऽपि रजसोऽविरहान्नित्ययौवना । विषयान्तरसम्पर्कशून्य आनन्दकविषयको वृत्तिविशेषो मदस्तेन शालते शोभत इति तथा ॥ १४२ ॥ मदाघूर्णितरक्ताक्षी मदपाटलगण्डभूः । मदेन चूर्णितानि रक्तानि चाक्षीणि यस्याः । बाह्यविषयवैमु घूर्णनम् । मदेन पाटले श्वेतरक्ते गण्डभुवौ कपोलभित्ती यस्याः । मदो मद्यं लक्ष : तत्पानम् । यद्वा मदः कस्तूरी । पाटलं पुष्पविशेषः । मत्वर्थीयोऽच् । तद्वत्या मका आचित्रिते कर्णावतंसवत्यौ च गण्डभुवौ यस्याः । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः । मोऽपि मद् आख्यात.................... ॥' इति विश्वः । चन्दनद्रवदिग्धाङ्गा चाम्पेयकुसुमप्रिया ॥ १४३ ॥ चन्दनस्य मलयजस्य द्रवेण घृष्टसारेण दिग्धानि लिप्तान्यङ्गानि यस्याः । चाम्पेयकुसुमं नागकेसरपुष्पं चम्पासम्बन्धिपुष्पं वा प्रियं यस्याः ॥ १४३ ॥ निःसीम निरवधिको महिमा यस्याः सा । महिम्ने इति ॥ नित्यं यौवन (नं)(स्य?) यस्याः सा । यौवनायै इति ॥ स्वात्मानन्दानुभवजन्यमदयुक्ता । शालिन्यै इति ॥ १४२ ॥ तेनैव मदेन घूर्णितानि रक्तान्यक्षीणि यस्याः सा । अक्ष्यै इति ॥ तेनैव मदेन पाटला श्वेतरक्तागण्डभू: कपोलप्रदेशो यस्याः सा । भुवे इति ॥ चन्दनस्य द्रवेण पङ्केन दिग्धानि लिप्तान्यङ्गानि यस्याः सा | अङ्गयै इति ॥ चाम्पेयं चम्पासम्बन्धिकुसुमं प्रियं यस्याः सा । प्रियायै इति ॥ १४३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy