________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
177 विष्णुसहस्रनामभाष्ये आचार्य भगवत्पादैः । ततश्च तत्र 'यदे नमस्तदे नम' इति केषाञ्चिच्चतुर्थ्यन्तमन्त्रकल्पनं चिन्त्यम्, यत्तत्पदशक्यतावच्छेदकापरित्यागेनैव ब्रह्मणि प्रवृत्तौ संज्ञात्वाभावेन सर्वनामत्वानपायात् । किञ्च तवर्गीयाक्षरचतुष्टयान्यतमान्तत्वेऽपि चर्चेन यत्तत्पदमिति संहितोपपत्तेर्दकारान्तत्वमेवेति तयोः प्रातिपदिकयोर्दुरुपपादम् । तस्माद्यस्मैनमस्तस्मैनम इत्येव प्रयोगः । ब्रह्मविशेष्यकत्वाभिप्रायेण नपुंसकलिङ्गोपपत्तिः । एवमेव त्वं पदेनापि भगवती वाच्येति तुभ्यं नम इत्येव प्रयोगः । यदा तु तत्त्वमसीत्यत्रेव निर्गुणब्रह्मलक्षके तत्त्वं पदे तदापि सर्वनामतानपायादुक्तविध एव प्रयोगः । नहि संकुचितवृत्तिकमपि विश्वपदं विश्वेदेवा इत्यादौ सर्वनामतां जहाति । अयीति कोमलामन्त्रणेऽव्ययम् । गौरादेराकृतिगणत्वात्ततो डीषि रूपमिदम् । जनमातृत्वाज्जनै रामन्त्रणीयेत्यर्थः । अय: शुभावहो विधिस्तद्रूपा वा । असीति पदार्थस्यैक्यस्य वाचकं वाऽयीति पदम् । 'अयपयगता विति धातुपाठेन गत्यर्थस्य तत्रैव पर्यवसानात् अय्यै नम इति प्रयोग: । चरमशतकान्तर्गतेन नाम्ना पौनरुक्त्यपरिजिहीर्षयेयं कल्पना सूत्रकृतामित्युपपत्तिः । एवमन्यत्राप्यूह्यम् । पञ्चसंख्याकाः कोशा: पञ्चकोशा इति मध्यमपदलोपी समासः । ते च पञ्चपञ्चिकापूजने प्रसिद्धा मन्त्रविशेषाः । तदभेदात्तद्देवता अपि । ताश्च ज्ञानार्णव
'श्रीविद्या च परंज्योतिः परा निष्कलशाम्भवी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ इति । एतासु पञ्चदेवतासु श्रीचक्रराजेऽज़मानासु परंज्योतिराद्याश्चतस्रो देवता अभितः सृष्ट्यादिचक्रेषु व्यष्टिसमष्टिभेदेन पूज्यन्ते । श्रीविद्या तु मध्ये बिन्द्विति स्थितिः । तेन पञ्चकोशानामन्तरे मध्ये स्थितेत्यर्थः । यद्वा सन्ति तावदस्मदादिशरीरेष्वन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमयाख्या अन्तरन्तःकक्ष्याक्रमेण पञ्चकोशपदवाच्याः पदार्थाः । एतेषां पञ्चानां मध्ये आन्तर आनन्दमयः कोशस्तत्राभेदेन स्थिता । आनन्दमयाधिकरणे वृत्तिकारैः-'अन्योन्तरात्मानन्दमय' इत्यादिश्रुतिष्वानन्दमयस्य ब्रह्मरूपतोक्तेः । आचार्य भगवत्पादैस्त्वानन्दमयस्य शोधनीयेषु गणनादशुद्धत्वे सिद्धे ब्रह्मता नोपपद्यत इत्याशयेन ब्रह्मपुच्छवाक्य एव ब्रह्मनिर्देशो व्यवस्थापितः । तत्पक्षे 'यदयमाकाश आनन्दो न स्यादिति सामानाधिकरण्येन प्रयोगादानन्दमयकोशस्य पराकाशात्मकब्रह्मशरीरभूतचिच्छक्तिरूपत्वम् । श्रीकण्ठभाष्ये तट्टीकादावयमर्थः स्पष्टः । पुच्छब्रह्मपक्षे तु पञ्चानामन्तरे मध्ये स्थितेत्यर्थः । युक्तञ्चैतत् । ब्रह्मगीतायां तथैवोपबृंहणदर्शनात् । तदुक्तम्
'तथानन्दमयश्चापि ब्रह्मणान्येन साक्षिणा । सर्वोत्तरेण सम्पूर्णो ब्रह्म नान्येन केनचित् ॥ यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् । सरसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवा ॥
For Private and Personal Use Only