________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
173
सौभाग्यभास्कर-बालातपासहितम् स्यादिति तादृशेन संपुटीकरणाभावाद्भवति सूत्रविरोधः । सूत्राणामपि दृष्टोपायनिबन्धनमात्ररूपत्वेन तदुक्तोपायस्योपायान्तरादूषकत्वपर्यालोचने तु सोऽपि पक्षः साधुरेव । एवमन्यत्रापि द्रष्टव्यम् ॥ १४० ॥
चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका । चिच्छक्तिरौपम्यशक्तिः । चिदित्युपमाया मिति यास्कस्मृतेः । 'चिदिति चोपमार्थे प्रयुज्यमान' इति पाणिनि स्मरणाच्च ।
a अक्षरे ब्रह्मपरे अनन्ते विद्याऽविद्ये निहिते यत्र गूढे ।
क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्य ॥ इति श्वेताश्वतरनिर्दिष्टं विद्यापदेनोच्यते । अविद्यानिवारकत्वरूपं सामर्थ्य चैतन्यापरंपर्यायं वा चिच्छक्तिः । देवीभागवते पञ्चमस्कन्धे
'वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप । शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा ॥
चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ।' इति । तदेवाह चेतनारूपा । 'चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यत' इति संक्षेपशारीरकाचार्याः । चैतन्यस्वरूपा शक्ति रिति गौडपादीयसूत्रञ्च । देवीभागवते प्राथमिकश्लोकेऽपि-सर्वचैतन्यरूपां तामाद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदया दिति । इयञ्च त्रिचरणा गायत्री । अत एव मात्स्ये-'गायत्र्या च समारम्भस्तद्वै भागवतं विदुरिति । "सैषानन्दस्य मीमाँ सा भवती' ति श्रुति रपि । आनन्दस्य ब्रह्मणः सैषा चिद्रूपा शक्तिर्मीमांसा भवति विमर्शात्मिका भवतीति शंकरारण्यचरणैर्विद्यारत्ने व्याख्यानदर्शनात् ।
स्रष्टव्यजगदात्मकशक्यप्रतियोगिको मायापरिणामविशेषो जडशक्तिः । सृज्यशक्तिमात्रोपलक्षणमेतत् । उक्तञ्च विष्णुपुराणे
'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः। शतशो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः॥ भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता । निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि ॥
चितः ज्ञानात्मनः शक्तिः चैतन्यरूपा । शक्त्यै इति ॥ चेतना चैतन्यम्, तद्रूपं यस्याः सा | रूपायै इति ॥ जडस्य पृथिव्यादेः शक्तिः धारणदाहनादि तद्रूपा । शक्त्यै इति ॥ जडस्य दृश्यस्य आत्मैका (वा)त्मिका । चिदतिरेकेण जडस्य रूपाभावात् । आत्मिकायै इति ॥
For Private and Personal Use Only