________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
172
ललितासहस्रनामस्तोत्रम् इति वसिष्ठसूत्रोक्तलक्षणकाः शिष्टास्ते इष्टा यस्याः सा । यद्वा शिष्टैरिष्टा पूजिता । इममेवार्थं स्पष्टमाचष्टे शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ १४० ॥
प्रमातुं योग्या प्रमेया प्रमेया न भवतीत्यप्रमेया । अकारार्थेब्रह्मविष्ण्वादिभिः प्रमेया वा । अप्सु प्रमेया वा । 'मम योनिरस्वन्तः समुद्र' इति श्रुतेः । स्व: आत्माभिन्न: प्रकाशो यस्याः । दृश्यत्वाभावेन पराप्रकाश्यत्वात् । 'अत्रायं पुरुषः स्वयंज्योति रिति श्रुतेः । सुषु अप्सु प्रकाशो यस्या वा । मनांसि च वाचश्च मनोवाचस्तेषां तासां चागोचरा अविषयः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति श्रुतेः । विष्णुपुराणे प्रह्लादवचनञ्च
'यातीतगोचरा वाचां मनसां चाविशेषणा।
ज्ञानिज्ञानपरिच्छेद्या वन्दे तामीश्वरी पराम् ॥ इति । 'स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरेत्यादाविव गोचरशब्दस्य स्त्रीलिङ्गत्वम् । न विद्यते गोचरो यस्यामिति वा । वाङ्मनसविषय एकोऽपि पदार्थो यस्यां नास्ति । तद्गुणानामप्यानन्त्येन वाङ्मनसाऽतीतत्वादिति भावः । यत्तु अन्त्या इत्यधिकृत्य 'निर्मन् द्वे', 'क्तिष्ठे' इति छलाक्षरसूत्रद्वयं पठ्यते । निः मन् क्तिः ष्ठा इत्येतदक्षरान्तानि चत्वार्येव नामानि द्विद्विपदघटितानि भवन्तीति तदर्थः । तत्समानविभक्तिकपदद्वयपरम् । 'अप्राप्ते वाक्यमर्थ'वदिति न्यायेन तादृशस्थल एव नामद्वयभ्रमनिरासकत्वेन सार्थक्यात् । यथा 'पर ज्योतिः परं धाम परा शक्तिः परा निष्ठेति । इदं तु भिन्नविभक्तिपदद्वयघटितमेकं नामेत्यदोषः । यद्यपि मनश्च वाचा च मनोवाचे ते च ते आमे च अपक्वे च मनोवाचामे । 'विशेषणं विशेष्येण बहुल मित्युक्तेर्न पूर्वनिपातः । ते न भवत इत्यमनोवाचामे । तयोर्गोचरेत्येकपदमेवेदं नाम सुवचम् । 'यतो वाचो निर्वतन्ते' इति श्रुतेर्वेदैकवेद्यत्वश्रुत्या 'मनसैवानुद्रष्टव्य'इत्यादिश्रुत्या च सह विरोधस्य भामत्यां शक्तिलक्षणापरतया पक्वापक्वमनःपरतया च व्यवस्थाकल्पनेन परिहतत्वात् । तथापि 'गस्वियादृढीठकां पृण्' इति छलाक्षरसूत्रविरुद्धम् । तस्य च छाया 'पृकिकुरवीरिवदृढीठकांपृ'इत्येकादशभिरक्षरैर्भाष्यकारैरुक्ता । तेषु च प्रकृतं नामारभ्य पञ्चकोशान्तरस्थितेत्यन्तानि चतुर्दश नामानि प्रतिपाद्यन्ते । पवर्गीयाद्यक्षरकाष्टाक्षरनामभ्यां संपुटीकृतानि द्वादश नामानीत्यर्थः । प्रकृतनामन्येकाक्षरप्रश्लेषे तु नवाक्षरत्वं स्वरादित्वं च
न प्रमातुं योग्या अपरिच्छिन्ना । प्रमेयायै इति || स्वप्रकाशो यस्याः सा पराप्रकाशत्वात् । प्रकाशायै इति ॥ मनसां वचसा अगोचरः अविषयः स्वरूपं यस्याः सा । गोचरायै इति ॥ १४० ॥
For Private and Personal Use Only