SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 171 इति । शङ्करोपासितचतुष्कूटविद्यास्वरूपा वा । शिव एव मूर्तिः स्वरूपं यस्याः शिवशक्त्ययोरभेदात् । तदुक्तम् 'एको रुद्रः सर्वभूतेषु गूढो माया रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्ना ह्येतज्ज्ञात्वैवामृतत्वं व्रजन्ति ॥ इति । शिवा मङ्गलमयी मूर्तियस्या इति वा । शिवो मोक्ष एव रूपं यस्या वा । मोक्षस्यात्ममात्रस्वरूपत्वात् । तदुक्तं सौरसंहितायां चतुर्दशाध्याये-'अथ मुक्तेः स्वरूपं ते प्रवक्ष्यामि समासत' इत्यारभ्य 'तस्मादात्मस्वरूपैव परा मुक्तिरविद्यया । प्रतिबद्धा विशुद्धस्य विद्यया व्यज्यतेऽनघ ।' इत्यन्तम् । भक्तं शिवमेव करोति अविद्यापाशनिरासेन मुक्तप्राप्यं ब्रह्म करोतीवेत्युपचारात् । मङ्गलं करोतीति वा शिवङ्करी । 'कृञो हेतुताच्छील्यानुलोम्येष्विति ट: । 'शिवशमरिष्टस्य कर' इति मुम् ॥ १३९ ॥ शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । शिवस्य प्रिया । शिवः प्रियो यस्या इति वा । शिवात्परा शिवस्य शक्त्यधीनात्मलाभकत्वात् । शिवः परो यस्या इति वा । शिवप्रतिपादकत्वाद्वा शिवपरा । अयं शिवशब्द एतत्पर इत्यत्रैवमेव व्याख्यादर्शनात् । शिष्टान्यनुशिष्टानि विहितकर्माणि इष्टानि इच्छाविषयाः प्रियाणि यस्याः सा शिष्टेष्टा । 'इषु इच्छायामिति धातोः कर्मणि निष्ठायामिष्टमिति रूपम् । यद्वा शिष्टैर्विहितकर्मभिरिष्टा पूजिता । यजतेर्निष्ठायां संप्रसारणे 'व्रश्चेति षत्वे च रूपम् । 'स्वस्ववर्णाश्रमैर्धमः सम्यग्भगवदर्पितैः । यत्पूजनं न तद्गन्धमाल्यादीनां समर्पणैः ॥ इति वचनात् । 'आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत' इति महाभारतबृहन्नारदीययोर्वचनात्त्व । यद्वा 'न पाणिपादचपलो न नेत्रचपलो भवेत् । न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ पारम्पर्यागतो येषां वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ शिवस्य प्रिया कान्ता | प्रियायै इति ॥ शिवस्यापि परा उत्कृष्टा जीवभूता | परायै इति ॥ शिष्टा इष्टा यस्याः । इष्टायै इति ॥ शिष्टैः पूजिता । पूजितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy