SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमशतकं नाम षष्ठी रुच्याख्या कला -विविधाकारा विद्याविद्यास्वरूपिणी । प्राकृता वैकृताः सर्गाः कौमारसर्गश्चेत्येवं विविधा आकारा यस्याः सा । 'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीविद्ययाऽमृतमश्नुते ॥ इति श्रुतौ प्रसिद्ध विद्याविद्ये । विद्या स्वात्मरूपं ज्ञानम् । अविद्या चरमवृत्तिरूपं ज्ञानम् । तदुभयं स्वरूपमस्याः । उक्तञ्च बृहन्नारदीये 'तस्य शक्तिः परा विष्णोर्जगत्कार्यपरिक्षमा । भावाभावस्वरूपा सा विद्याविधेति गीयते ॥ इति । देवीभागवतेऽपि-'ब्रह्मैव साति दुष्प्रापा विद्याविद्यास्वरूपिणी'ति । तत्रैव स्थलान्तरे 'विद्याविद्येति देव्या व रूपे जानीहि पार्थिव । एकया मुच्यते जन्तुरन्यया बध्यते पुनः ॥ इति । यद्वा । विद्यैव चरमवृत्तिरूपं ज्ञानम् । अविद्या भेदभ्रान्तिरूपं ज्ञानम् । स्व: परब्रह्मात्मकं ज्ञानम् । स्वपदस्यात्मवाचित्वात् । 'स्वो ज्ञातावात्मनीति कोशात् । एतत्त्रयं रूपमस्याः । उक्तञ्च लैङ्गे 'भान्तिर्विद्या परं चेति शिवरूपमिदं त्रयम् । अर्थेषु भिन्नरूपेषु विज्ञानं भान्तिरुच्यते ॥ आत्माकारेण संवित्तिर्बुधैर्विधेति कथ्यते । विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ इति ॥ महाकामेशनयनकुमुदाह्लादकौमुदी ॥ १३८ ॥ महांश्चासौ कामेशश्चेति वा महाकामो महेच्छो महाशयश्चासावीशश्चेति वा महाकामेशस्तस्य नयने एव कुमुदे कैरवे रक्तपङ्कजे वा तयोराह्लादे विकासे सुखातिशयकृतनिमीलने वा कौमुदी चन्द्रिकेव । कार्तिकपूर्णिमेवेति वा । विविधः विचित्रः कालीतारादिभेदभिन्नः आकार: स्वरूपं यस्याः सा । आकारायै इति ॥ विद्या मोचकं ज्ञानम्, अविद्या बन्धनं ज्ञानम्, तदुभयं स्वरूपमस्याः । स्वरूपिण्यै इति ॥ ___ महाकामेशः परशिवः तस्य नयनान्येव कुमुदानि तेषामाह्लादने कौमुदी ज्योत्स्नेव स्थिता । कौमुद्ये इति ॥ १३८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy