SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 167 इति । पञ्चशिखाचार्यैरपि-'अनादिमध्यं महतः परं ध्रुवं प्रधानमव्यक्तमुशन्ति सूरय' इति । तच्च गुणत्रयसमष्टिरूपमेवेति 'सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सांख्यप्रपञ्चनसूत्रे स्पष्टम् । ब्रह्मैव वाऽव्यक्तपदेनोच्यते । तदव्यक्तमाह ही'त्यधिकरणे 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वे'त्यादिश्रुतिभिस्तथा निर्णयात् । विष्णुस्वरूपेति वार्थः । प्रधानमव्ययं योनिरव्यक्तं प्रकृतिस्तमः । विष्णोरेतानि नामानि नित्यं प्रभवधर्मिणः ॥' इति लैङ्गात् । व्यक्तं महत्तत्त्वं पूर्वस्मादभिव्यक्तत्वान्महत्वाच्च । आसमन्ताद्व्यक्त आव्यक्तस्तज्जन्योऽहङ्कारः तदुभयस्वरूपिणीत्येकं पदम् । व्यक्तेत्यस्य भिन्नपदत्वं स्वीकृत्योत्तरत्र ब्रह्मजननीति नामद्वयस्यैक्यमपि कर्तुं युक्तं पौनरुक्त्यादिदोषाप्रसरात् । प्रत्युत वकारबकारादिनामप्रायपाठानुगुण्याच्च । अस्मिन्पक्षे व्यक्तं स्वरूपमहन्तात्मकमस्या इति योज्यम् । पराहन्तायास्त्रिपुरसुन्दरीरूपत्वाद् अहङ्काराख्यतत्वे तदभिव्यक्तेः । व्यक्तमव्यक्तं चेति स्वरूपे अस्या इति वा । भूतभावविकारसाहित्यराहित्यवतीत्यर्थः । तदप्युक्तं लैङ्गे 'भूतभावविकारेण द्वितीयेन सदुच्यते । व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि ॥ इति । क्षराक्षररूपेति वाऽर्थः । 'उक्तमक्षरमव्यक्तं व्यक्त क्षरमुदाहृत मिति मत्स्यपुराणात् | समष्टिव्यष्टिरूपेति वा । 'समष्टिं विदुरव्यक्तं व्यक्तं व्यष्टिं मुनीश्वरा' इति नृसिंहपुराणात् | त्रयोविंशतितत्त्वप्रकृतिरूपा वा । 'त्रयोविंशतितत्त्वानि व्यक्तशब्देन सूरयः। वदन्त्यव्यक्तशब्देन प्रकृतिं च परां तथा ॥ इति ब्रह्माण्डपुराणात् । अथवा व्यक्ताव्यक्ते च व्यक्ताव्यक्तं चेति पुनरेकशेषान्तरेण व्यक्तमव्यक्तं व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेत्यर्थः । तल्लक्षणानि ब्रह्मवैवर्तपुराणे 'स्वायम्भुवं बाणलिङ्ग शैललिङ्गमिति त्रिधा । कीर्तितं व्यक्तमव्यक्तं व्यक्ताव्यक्तमिति क्रमात् ॥ व्यक्तं भुक्तिप्रदं मुक्तिप्रदमव्यक्तमुच्यते । भुक्तिमुक्तिप्रदं लिङ्ग व्यक्ताव्यक्तं प्रचक्षते ॥ द्वित्रिस्तुलां समारूढं वृद्धिमेति न हीयते । तद्वाणलिङ्गमुदितं शेषं शैलं विदुर्बुधाः ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy