________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
ललितासहस्रनामस्तोत्रम् इति । शैवमते तु सात्त्विकादहमो मनो राजसादहमो दशेन्द्रियाणीति विशेषः । यदाहुः शैवाः -
'सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रेधा । स च तैजसवैकारिकभूतादिकनामभिः समुल्लसति ॥ तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि ।।
भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मात् ॥ इति । एते च षट्सर्गाः प्राकृताः । वृक्षादिरूस्रोतोरूप: पश्वादिस्तिर्यस्रोतोरूपो भूतप्रेतादिरक्स्रिोत इति त्रयो वैकृताः । प्राकृतवैकृतात्मक एक: कौमारसर्ग इति । तदुक्तं विष्णुभागवते
'आद्यास्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ॥ भूतसर्गस्तृतीयस्तु तन्मात्रो द्वव्यशक्तिमान् । चतुर्थ एन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥
षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु। इत्यादि । अत्राव्यक्ताख्यतमःसर्गस्य पष्ठत्वोक्तिः पाठक्रमानुसारेण । आर्थक्रमात्तु तस्य प्रथमत्वमेव । अस्मन्नेवार्थे वायुपुराणादीन्यप्युदाहार्याणि । एवं चाव्यक्तादिसर्गाणां मध्ये उत्तरोत्तरस्य पूर्वपूर्वं प्रकृतिः अव्यक्तस्य तु ब्रह्मैव प्रकृतिरिति सर्वसृष्टीनां मूलभूतत्वात्तस्य मूलान्तराभावाच्च मूलप्रकृतिरित्यर्थः । अत एव श्रूयते-'इन्द्रियेभ्यः परा ह्यर्था' इत्यारभ्य
'महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः॥ इति । अथवा मूकारः पञ्चसंख्यानां तन्मात्राणाम् । लकारस्त्वव्यक्तमहदहङ्काराणां त्रयाणां बोधकः । तेनाष्टविधा प्रकृतिरित्यर्थः । तथा च समाससूत्रम्-'अष्टौ प्रकृतय' इति । अथ क्रमेण सर्वस्वरूपैः स्तोतुमुपक्रमते ।
अव्यक्ता प्राथमिकमायास्फूर्तिरूपा । सांख्यमते प्रधानप्रकृत्यादिपदवाच्यमव्यक्तं तद्रूपा वा । तदुक्तं सांख्यसप्तत्याम्
'सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथा प्रसवधर्मि । निरवयवमेकमेव हि साधारणमेतदव्यक्तम् ॥
For Private and Personal Use Only