________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
ललितासहस्रनामस्तोत्रम्
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । __प्रभा अणिमाद्या आवरणदेवताः । 'अणिमादिभिरावृतां मयूखैरिति वचनात् । तद्वती ताभिरावृता । किरणास्तावद्गुणस्वरूपा न पुनर्द्रव्यान्तराणीति प्राचां पक्षः । 'किरणा गुणा न दव्वं तेषु पयासो गुणो न सो दब्बो' इति धर्मसंग्रहिण्यादौ ग्रन्थे हरिभद्रादिभिर्जेनसूरिभिरुट्टङ्कितः । 'किरणा गुणा न द्रव्यं तेषु प्रकाशो गुणो न स द्रव्य मिति तु तच्छाया । ततश्च गुणगुणिनोरभेदादाह । प्रभारूपा अणिमाद्या देवता, स्वरूपमेव यस्याः । "मनोमयो भारूप' इति श्रुतेः । सर्वैरहमिति वेद्यत्वात्प्रसिद्धा । तथा च देवीभागवते-'तामहं प्रत्ययव्याजात्सर्वे जानन्ति जन्तव' इति । तत्रैव प्रथमस्कन्धारम्भे'सर्वचैतन्यरूपां तामाद्या विद्यां च धीमही ति । परमा उत्कृष्टा स सेश्वरी स्वामिनी च ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ १३७ ॥ मूलस्य श्रीविद्यामन्त्रस्य प्रकृति: कारणभूतप्रकाशविमर्शाख्याक्षरद्वयरूपा । सांख्यमतप्रसिद्धा वा मूलप्रकृतिः । यदाहु:
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः॥ इति । मृगेन्द्रसंहितायां तु 'महदादिसप्तकरूपसुषुम्णावेष्टिता कुण्डलिन्येवाष्टप्रकृतिरूपा मूलप्रकृतिरुच्यत' इत्युक्तं तेन तद्रूपा वा । अथवा पृथिव्यादीनामाकाशान्तानां मध्ये पूर्वपूर्वस्य विकृतिभूतस्योत्तरोत्तरं भूतं प्रकृतिः । आकाशस्य तु ब्रह्मैव प्रकृतिः । 'आत्मन आकाशः सम्भूत'इति श्रुतेः । तस्य तु न प्रकृत्यन्तरमतो मूलस्थानीया प्रथमा प्रकृतिरित्यर्थः । अत एव पञ्चरात्रागमे शिववाक्यम्
'प्रादुरासीज्जगन्माता वेदमाता सरस्वती । यस्या न प्रकृतिः सेयं मूलप्रकृतिसंज्ञिता ॥
तस्यामहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभिः । इति । अत्रैदं बोध्यम्-नियतकालपरिपाकानां हि कर्मणां मध्ये परिपक्वानामुपभोगेन क्षयादितरेषां च पक्वानां भोगसम्भवेन तदर्थायाः सृष्टेिरनुपयोगात्प्राकृतप्रलयो भवति । तदा ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठे परमशिवे निष्कले विलीना सती
प्रभा कान्तिरस्यास्तीति सा । प्रभावत्यै इति ॥ प्रकृष्ट सूर्याद्यपेक्षया भारूपं प्रकाशरूपं यस्याः सा । रूपायै इति ॥ अत एव प्रकाशकान्तरानपेक्षया प्रसिद्धा । प्रसिद्धायै इति ॥ परमेश्वरस्य स्त्री । ईश्वर्य इति ॥ ___ मूलस्य जगत्कारणस्येश्वरस्य प्रकृतिः स्वभावभूता । प्रकृत्यै इति ॥ अव्यक्ता मायारूपा । अव्यक्तायै इति ॥ व्यक्ताव्यक्ते . कार्यकारणे । तदुभयं स्वरूपं अस्या अस्तीति सा । स्वरूपिण्यै इति ॥ १३७ ॥
For Private and Personal Use Only