________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
163
सौभाग्यभास्कर-बालातपासहितम् नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ १३६ ॥ षोडशैवषोडशिकाः नित्याश्च ताः षोडशिकाश्च कामेश्वर्यादित्रिपुरसुन्दर्यन्तास्तासां रूपाणि यस्याः सा । उक्तञ्च तन्त्रराजे
'आद्याया ललितायाः स्युरन्याः पञ्चदशाङ्गगाः ।
ललिताङ्गित्वरूपेण सर्वासामात्मविग्रहा ॥ इति । षोडश्येव षोडशिकेति वा । नित्यो विकल्परहित आसमन्तात्षोडशिको ग्रहयागाभ्यासविशेषो येषु क्रतुषु तैरासमन्ताद्रूप्यते प्रीयत इति वा । 'अतिरात्रे विकल्पितस्यापि षोडशिग्रहस्योत्तरेहन् द्विरात्रस्य गृह्यत' इत्यादिवचनैरुत्तरक्रतुषु नित्यत्वात् । उक्तञ्च शक्तिरहस्ये
__'कोटिभिर्वाजपेयानां यथा षोडशकोटिभिः ।
प्रियतेऽम्बा तथैकेन षोडश्युच्चारणेन सा ॥' । इति । श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठः शिवस्तस्यार्धं शरीरमस्याः । श्रीकण्ठेनार्धशरीरवतीति वा । तदभिन्नार्धशरीरशालिनीति यावत् । अत एवैकस्यैव द्वयात्मकत्वं बृहदारण्यके श्रूयते-'आत्मैवेदमग्र आसी दिति प्रक्रम्य 'स इममेवात्मानं द्वधाऽपातयत्ततः पतिश्च पत्नी चाभवतामिति । अथवा । श्रीकण्ठवदर्धे शरीरे अस्याः । श्रीकण्ठस्य यथा किञ्चिन्नीलं किञ्चिच्छुक्लं शरीरं तद्वदुभयरूपेति यावत् । तदुक्तं वायुपुराणे
'तत्र या सा महाभागा शङ्करस्यार्धकायिनी । कायाधं दक्षिणं तस्याः शुक्लं वाम तथा सितम् ॥ आत्मानं विभजस्वेति प्रोक्ता देवी स्वयम्भुवा ।
तदैव द्विविधा भूता गौरी कालीति सा द्विजा ॥ इति । यद्वा । 'अः श्रीकण्ठः सुरेशश्च ललाटं केशवोऽमृतेति मातृकाकोशाच्छ्रीकण्ठोऽकारः स एवार्धं शरीरमस्या वाग्रूपाया इत्यर्थः । तथा च श्रूयते-'अकारो वै सर्वा वाक्सैषा स्पर्शीष्मभिर्व्यज्यमाना बह्वी नानारूपा भवतीति । अकाररूपा पराख्या प्रथमा वागैव वैखर्यात्मिका जातेति फलितार्थः । उक्तञ्च सूतसंहितायाम्
'वागुद्धता पराशक्तिर्या चिद्रूपा पराभिधा ।
वन्दे तामनिशं भक्त्या श्रीकण्ठार्धशरीरिणीम् ॥' इति । यद्वा एकार्धरूपाया देव्या अर्धान्तरः श्रीकण्ठः परिपूर्तिकर इति यावत् । तदपि तत्रैवोक्तम्-'इच्छासंज्ञा च या शक्तिः परिपूर्णा शिवोदरे'ति । शैवे मातृकान्यासेऽe पूर्णोदर्यादिशक्तिभिरर्धं श्रीकण्ठादिशिवैः पूर्यत इति फलितार्थः । यद्वा अकारस्य यल्लेखनदशायां कामकला समानजातीयम) तदभिन्नशरीरवतीति । १३६ ॥
नित्याया: षोडशिका: षोडशसंख्याः तासां रूपं यस्याः सा । रूपायै इति ॥ श्रीकण्ठस्य गरलकण्ठस्य अर्धशरीरं अस्या अस्तीति सा । शरीरिण्यै इति ॥ १३६ ॥
For Private and Personal Use Only