SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 161 ओड्याणाख्यं पीठमेव निलयो वासस्थानं यस्याः । बिन्दुरेव मण्डलं सर्वानन्दमयात्मकं चक्रवालं तत्र वसति | बिन्दुः शुक्लं तस्य मण्डलं ब्रह्मरन्ध्रमित्यन्ये । 'सहस्रारे पद्ये सह रहसि पत्या विहरसे' इत्याचार्योक्तिः । रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ १३४ ॥ रहसि विविक्ते क्रियमाणो यागश्चिदग्नौ अनच्ककुण्डलन्यधिष्ठिते पुण्यादिहोमाष्टकरूपो रहोयागस्तस्य क्रमेण प्रयोगेणाराध्या । 'यज देवपूजासङ्गतिकरणदानेष्विति धातुपाठादेकान्तसङ्गतिरेव वा रहोयागः तत्र क्रमेण पादविक्षेपेणाराध्या प्राप्या । यदाहापस्तम्ब: 'न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥ एकान्तशीलस्य दृढव्रतस्य मोक्षो भवेत्प्रीतिनिवर्तकस्य । अध्यात्मयोगे निरतस्य सम्यङ्मोक्षो भवेन्नित्यमहिंसकस्य ॥' इति । अरुणोपनिषदपि-'यदि प्रविशेत् मिथो चरित्वा प्रविशेदिति । श्रीविद्योपासनामार्गे रह:सम्पाद्यैव प्रविशेदिति तदर्थः । 'मिथोऽन्योन्यं रहस्यपीति कोशात् । 'प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनी सुचम् । __ धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहम् ॥ इति । मन्त्रोक्तार्थविभावनम्'अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् ॥ इति । मन्त्रार्थविभावनञ्च च रहस्तर्पणं तेन तर्पिता ॥ १३४ ॥ सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । तादृशयागतर्पणाभ्यां सद्यस्तदात्व एव प्रसीदतीति तथा । विश्वस्य द्रष्ट्री साक्षादव्यवधानेन स्वरूपात्मकबोधेनेति विश्वसाक्षिणी । 'साक्षाद्रष्टरि संज्ञाया मितीन् । रहसि एकान्ते उपासकैराधारादिचक्रेषु क्रियमाणो भावनामयो यागो रहोयागः तस्य यः क्रमः परिपाटी तेन आराध्या । आराध्यायै इति ॥ तादृश पूजने नानाविधद्रव्यैर्यत्तर्पणं तेन तर्पिता । तर्पितायै इति ॥ १३४॥ तादृशोपासकेषु सद्यस्तत्काल एव प्रसादं करोतीति सा । प्रसादिन्यै इति ॥ विश्वस्याखिलप्रपञ्चस्य साक्षाद्दष्ट्री । साक्षिण्यै इति ॥ स्वेतरसाक्षिणा वर्जिता । वर्जितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy