SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 160 ललितासहस्रनामस्तोत्रम् अयो द्यूतक्रीडाकृतरूपोऽयो विजितो येन तस्मै अधरे तदधस्तना अयास्त्रेतादिक्रीडाः संयन्ति उपनमन्ते जिता भवन्तीति तदर्थात् । तेन कृतं यथा सर्वव्यापकमेवं सर्वविषयकं ज्ञानं यस्या इत्यर्थः । कृतं जानातीति वा । शिवेन सह द्यूतक्रीडायामवश्यं कृतज्ञत्वाद्देव्या एव जय इति ध्वन्यम् । कामेन मन्मथेन पूजितो - पासिता । अतएव वारुणोपनिषद- 'पुत्रो निर्ऋत्या वैदेह अचेता यश्व चेतनः । सतं मणिमविन्दत्.. ' Acharya Shri Kailassagarsuri Gyanmandir इति श्रूयते । लक्ष्म्याः पुत्रोऽनङ्गो विद्यारत्नं प्राप्तवानित्यर्थः । शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ १३३ ॥ शृङ्गाराख्यरसेन सम्यक् पूर्णा । अथवा उत्तरत्र जालन्धरोड्याणपीठयोः परामर्शदर्शनादनयोर्नाम्नोः कामरूपं पूर्णागिरिपरत्वं नामैकदेशन्यायेनास्थेयम् । सम्यक् पूर्णे आस्ते इति सम्पूर्णास् । आस्तेः क्विपि रुत्वयत्वयलोपाः । शृङ्गपदेन द्विसंख्या अररपदेन दलम् । रसाः षट् । द्विदलषट्कं द्वादशदलमनाहतचक्रमिति यावत् अधिभूतं प्रसिद्धस्य पीठचतुष्कस्याध्यात्मं मूलाधारानाहतविशुद्ध्याज्ञास्थिते तन्त्रेषु कथनाद् द्वाशदलेति पूर्णगिरिविशेषणम् । यद्वा शृङ्गं प्रधानभूतं अररं कवाटम् आवरकाविद्येति यावद्यस्याः सा शृङ्गाररा | सम्पूर्णेन ब्रह्मणा सहिता ससम्पूर्णा । उभयोः कर्मधारये शबलब्रह्म - शुद्धब्रह्मोभयवतीति यावत् । जयस्वरूपत्वाज्जया । पाद्मे-'जया वराहशैले त्विति परिगणिता । जालन्धरे पीठविशेषे स्थिता । पाद्ये'जालन्धरे विष्णुमुखी'ति प्रतिपादितविष्णुमुख्याख्या ॥ १३३ ॥ अथ नामपरिभाषामण्डले चतुश्चत्वारिंशत्पदानि विभजते द्वे द्वे चेद्वेद्वेभवदोहदभुविलेशशीलजलमोहैः । चतुर्भवगाः स्मो भुवि जलशोभा भगोलः खे ॥ १७ ॥ अत्र तृतीयं द्वे इति पदं षडक्षरनामद्वयपरं इतराणि त्वष्टाक्षरपराणि | चतुःपदं चतुरक्षरकनामचतुष्टयपरम् ॥ १७ ॥ ओड्याणपीठनिलया बिन्दुमण्डलवासिनी । शृङ्गाराख्यो यो रसः तेन सम्यक्णूर्णा । पूर्णायै इति ॥ जयरूपत्वाज्जया । जयायै इति ॥ जालन्धराख्ये पीठे स्थिता । स्थितायै इति ॥ १३३ ॥ ओड्याणाख्यं पीठं निलयो यस्याः सा । निलयायै इति ॥ बिन्दुमण्डलं सर्वानन्दमयं बिन्दुचक्रं तत्र वसतीति सा । वासिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy