________________
Shri Mahavir Jain Aradhana Kendra
158
इति । नित्यातन्त्रेऽपि
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
'मूलाधारे समुत्यन्नः पराख्यो नादसम्भवः । स एवोर्ध्वतयानीतः स्वाधिष्ठाने विजृम्भितः ॥ पश्यन्त्याख्यामवाप्नोति तथैवोर्ध्व शनैः शनैः । अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः ॥ तथा तयोर्ध्वनुन्नः सन्विशुद्धौ कण्ठदेशतः । वैखर्याख्य...
॥'
इत्यादि । इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः स्थूलदृशो वैखरीमेव वाचं मन्वते । तथा च श्रुतिः -- तस्माद्यद्वाचो नाप्तं तन्मनुष्या उपजीवन्तीति । अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थ इति वेदभाष्ये । श्रुत्यन्तरेऽपि
Acharya Shri Kailassagarsuri Gyanmandir
'चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति । स्कान्दे यज्ञवैभवखण्डेऽपि
'अपदं पदमापन्नं पदं चाप्यपदं भवेत् । पदापदविभागञ्च यः पश्यति स पश्यति ॥
इति । अपदं गतिरहितं निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं ब्रह्मैव भवतीति तदर्थः । एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् ते विभक्त्यन्ताः पदमिति गौतमसूत्रेण, सुप्तिङन्तं पदमिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणान्तर्गतसुप्रत्ययादेरपि चातुर्विध्यात्परात्मकतत्पदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभावेन वैखर्यात्मकतत्पदस्य' कैमुतिकन्यायेन दूरापास्तं तत्तादात्म्यमिति शब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव स्वीकार्येति भावः । मातृकाभेदेषु तिसृभ्यः परत्वात्परा | त्रिपुरासिद्धान्ते तु प्रकारान्तरैरपि निरुक्तिरुक्ता
'श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा । परानन्दाभिधे तन्त्रे प्रसिद्धत्वाच्च सा परा ॥ प्रासादरूपिणी चेति परा सा शाम्भवीपरा ॥
इति । प्रतिकूलं स्वात्माभिमुखमञ्चतीति प्रतीची सा च सा चिती च प्रत्यक्ति अव्यक्तसंज्ञं ब्रह्म सैव रूपं यस्यास्तथा । चिनोतेः क्तिजन्तात् 'कृदिकारादिति ङीष् । पश्यतीति पश्यन्ती । अस्या एवोत्तीर्णेत्यपि संज्ञा । उक्तञ्च सौभाग्यसुधोदये
'पश्यति सर्व स्वात्मनि करणानां सरणिमपि यदुत्तीर्णा । पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते
तेनेयं
मांता ॥'
For Private and Personal Use Only