________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
157
सौभाग्यभास्कर-बालातपासहितम् नादस्ततो बीजमिति त्रयमुत्पन्नम् । तदिदं परमसूक्ष्मस्थूलपदैरप्युच्यते । चिदंशश्चिदचिन्मिश्रोऽचिदंशश्चेति तेषां रूपाणि । तदुक्तं रहस्यागमे
'कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥
स बिन्दुनादबीजत्वभेदेन च निगद्यते ।' इति । एते च कारणबिन्द्वादयश्चत्वारोऽधिदैवतमव्यक्तेश्वरहिरण्यगर्भविराट्स्वरूपाः, शान्तवामाज्येष्ठारौद्रीरूपा अम्बिकेच्छाज्ञानक्रियारूपाश्च । अधिभूतं तु कामरूपपूर्णगिरिजालन्धरोड्याणपीठरूपा इति तु नित्याहृदये स्पष्टम् । अध्यात्मं तु कारणबिन्दुः शक्तिपिण्डकुण्डल्यादिशब्दवाच्यो मूलाधारस्थ:
'शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां
ज्ञात्वेत्थं न पुनर्विशन्ति जननीगर्भेऽर्भकत्वं नराः।' इत्यादिरीत्याचार्यैर्व्यवहृतः सोऽयमविभागावस्थ: कारणबिन्दुः । अयमेव च यदा कार्यबिन्द्वादित्रयजननोन्मुखो भिद्यते तद्दशायामव्यक्तः शब्दब्रह्माभिधेयो रवस्तत्रोत्पद्यते । तदप्युक्तम्
_ 'बिन्दोस्तस्माद्भिद्यमानादव्यक्तात्मा रवोऽभवत् ।
___ स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥ इति । सोयं रवः कारणबिन्दुतादात्म्यापन्नत्वात्सर्वगतोऽपि व्यञ्जकयत्नसंस्कृतपवनवशात्प्राणिनां मूलाधार एवाभिव्यज्यते । तदुक्तम्
'देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः । विवक्षोरिच्छयोत्थेन प्रयत्नेन सुसंस्कृतः॥
स व्यअयति तत्रैव शब्दब्रह्मापि सर्वगम् । इति । तदिदं कारणबिन्द्वात्मकमभिव्यक्तं शब्दब्रह्म स्वप्रतिष्ठतया निष्पन्दं तदेव च परावागित्युच्यते । अथ तदेव नाभिपर्यन्तमागच्छता तेन पवनेनाभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपकार्यबिन्दुमयं सत्पश्यन्तीवागुच्यते । अथ तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दप्रकाशरूपनादमयं सन्मध्यमावागित्युच्यते । अथ तदेव वदनपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिवर्णरूपपरं श्रोत्रग्रहणयोग्यस्पष्टतरप्रकाशरूपबीजात्मकं सद्वैखरीवागुच्यते । तदुक्तमाचार्यैः
'मूलाधारत्प्रथममुदितो यश्च भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः । व्यक्ते वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्णाबद्धस्तस्माद्भवति पवने प्रेरिता वर्णसंज्ञा ॥
For Private and Personal Use Only