________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
156
ललितासहस्रनामस्तोत्रम् एतेनैतदन्यथानुपपत्त्या कल्प्यमानस्य निर्गुणस्यापि निरासाद्विशिष्टकेवलयोः सम्भवन्नपि सम्बन्धोऽप्रयोजक एवेत्यत् आह
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः॥ १३१ ॥ स्वात्मेति । स्वस्या आत्मरूपो य आनन्दस्तस्य लवीभूता इन्द्राद्यानन्दबिन्दुपर्यालोचनया सागरायमाणत्वेनालवा अपि देव्यानन्दसागरस्य लवाः सम्पद्यमाना ब्रह्मादीनां सृष्टिकर्तृत्वादिधर्मविशिष्टानां ब्रह्मविष्णुरुद्राणामानन्दानां सन्ततयः सम्यक्समूहा यस्याः सा । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः । तैत्तिरीये मानुषानन्दमारभ्योत्तरोत्तराधिक्येन वर्ण्यमानानामानन्दानां मध्ये परिगणितानां प्रजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्नब्रह्मानन्दतोऽल्पत्वेन पुरुषार्थत्वायोगेनापरिच्छिन्नानन्दस्य निर्गुणस्य सिद्धत्वाच्च पुरुषार्थसाधनज्ञानोपक्रमादितात्पर्यनिर्णायकप्रमाणविरोधाय तत्पदस्य निर्धर्मकात्मलक्षकत्वमेव युक्तमित्याशयः । 'लवो लेशे विलासे चेति विश्वः ॥ ३३१ ॥
परा प्रत्यचितीरूपा पश्यन्ती परदेवता । ननु शब्दार्थयोस्तादात्म्यस्यैव शक्तिपदार्थत्वान्निर्गुणस्यापि ब्रह्मण: शब्दब्रह्माभिन्नत्वेन किमिति तत्र सत्यादिशब्दानां लक्षणेत्याशङ्कय वैखर्यात्मकपदानां विराटपुरुषेणैव सह तादात्म्येन शुद्धब्रह्मतादात्म्यं नास्त्येवेति समाधित्सया वाचं विभजते । अत्रेदं बोध्यम् । प्रलये सृज्यमानप्राणिकर्मणामपरिपाकदशायां तादृशकर्माभिन्नमायावच्छिन्नं ब्रह्म घनीभूतमित्युच्यते । कालवशात्कर्मणां परिपाके सति विनश्यदवस्थ: परिपाकप्रागभावो विचिकीर्षेत्युच्यते । ततः परिपाकक्षणे मायावृत्तिरुत्पद्यते तादृशं परिपक्वकर्माकारपरिगणितमायाविशिष्टं ब्रह्माव्यक्तपदवाच्यम् । अतएव तस्योत्पत्तिरपि स्मर्यते-'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेति । स एव जगदङ्खरकन्दरूपत्वात्कारणबिन्दुपदेन व्यवह्रियते । तदुक्तं प्रपञ्चसारे-'विचिकीर्षुर्घनीभूता सा चिदभ्येति बिन्दुतामिति । अस्माच्च कारणबिन्दोः सकाशात्क्रमेण कार्यबिन्दुस्ततो
स्वस्य य आत्मभूत आनन्दः तस्य लवीभूताः ब्रह्मादीनाम् आनन्दानां सन्ततयः समूहाः यस्याः सा । सन्तत्यै इति ॥ १३१ ॥
परा मूलाधारोत्थितभावात्मककारणबिन्दुः शब्दब्रह्मेति प्रसिद्धं तद्रूपा । परायै इति ॥ प्रति प्रातिलोम्येन स्वात्माभिमुखमञ्चतीति प्रतीची सा च सा चितिः संवित्तिः तद्रूपं यस्याः सा । रूपायै इति ॥ पूर्वोक्तं शब्दब्रह्म मनोयुक्तं नाभिस्थं पश्यन्तीत्युच्यते । तद्रूपा । पश्यन्त्यै इति ॥ परा उत्कृष्टा देवता । देवतायै इति ।
For Private and Personal Use Only