________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
155
सौभाग्यभास्कर-बालातपासहितम् त्यौ ।' पदचतुरू+सूत्रात्प्रतिपादमित्यस्यानुवृत्त्या प्रतिपादं तगणयगणौ चेत्सा तनुमध्येत्युच्यत इति सूत्रार्थः । पूर्वोक्तमुदाहरणम्-'गायत्री छन्दसामहमिति कौर्मे देवीवचनादस्य वृत्तस्य तच्छन्दस्कत्वात्तद्रूपता । तमोऽविद्यामपहन्तीति तमोपहा । तथा चेशावास्ये श्रूयते-'अन्धंतमः प्रविशन्ति येऽविद्यामुपासत' इति । अविद्यामिति पदकाराणां पाठः । 'विद्यान्योपासनामेवं निन्दत्यारण्यकश्रुति' रिति ब्रह्माण्डपुराणस्थमुपबृंहणञ्च॥ १३० ॥
. चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी । अत एवाह-चितिः अविद्यापरिपन्थिज्ञानस्वरूपा । 'चितिः स्वतन्त्रा विश्वसिद्धिहेतु रिति शक्तिसूत्रोक्तस्वरूपेत्यर्थः । 'सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणा' - मिति महावासिष्ठे | तत्त्वमस्यादिमहावाक्यघटकतत्पदस्य जगज्जन्मादिकर्तृत्वविशिष्टं शबलं ब्रह्म वाच्योऽर्थः । तदेवेह स्तूयमानं धर्मिमात्रं तु शुद्धं ब्रह्म लक्ष्योऽर्थः । अनयोश्च विशिष्टकेवलयोस्तादात्म्यं सम्बन्धः । तदेतदाह । तदितिपदेन लक्षणीयोऽर्थः यस्याः यत्तादात्म्यापन्न: सा तत्पदलक्ष्यार्था । धर्मिमात्रपरत्वे तु तत्पुरुषापत्त्या 'परवल्लिङ्ग द्वन्द्वतत्पुरुषो रिति नियमात्पुल्लिङ्गतापत्तिः । ननु केवलमपि रूपमानन्दादिधर्मविशिष्टमेवेति वाच्यमेवास्त्वत आह । चिता सहैको रस: स्वरूपं येषां, चिदेव मुख्यो रसो येषां तानि चिदेकरसानि रूपाण्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरूपिणी । स्वाभिन्नधर्मवतीति यावत् । उक्तञ्च पञ्चपादिकायाम्'आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त' इति । तथा च शक्यतावच्छेदकभूतसृष्टिकर्तृत्वादिधर्माणां स्वरूपानन्तर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभेदेन शक्यतावच्छेदकत्वाभावाद्भागत्यागलक्षणावश्यकीति भावः । यद्वा केवलं ब्रह्म नेश्वरस्य धर्मीति तयोर्भेदादुक्तः सम्बन्धो न घटत इत्यत आह । चिदेकरसं चिन्मात्राभिन्न रूपमस्या एवेत्यर्थः । तयोर्भे देऽप्यभेदस्यापि सत्त्वाद्भेदसमानाधिकरणाबेदस्यैव तादात्म्यरूपत्वादुक्तसम्बन्धो घटत एवेति भावः । ननु सृष्टिकर्तृत्वादिधर्माणां स्वरूपानन्तर्गतत्वेऽपि शक्यतावच्छेदकत्वसम्भवात्तद्विशिष्टस्यैव तत्पदेन प्रतिपादेन तदभेद एव वाक्यार्थोऽस्तु । वचनबलाद्विशिष्टयोरपि तादात्म्यस्वीकारसम्भवात् । 'यो यच्छ्रद्धः स एव स' इत्यादिवचनानामुपास्योपासकत्वादिधर्मविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात् ।
चितिः ज्ञानरूपा । चित्यै इति ॥ तत्त्वमस्यादिवाक्यस्य तत्पदलक्ष्य अर्थः यस्याः सम्बन्धी सा । अर्थायै इति || चिदेकरस: ज्ञानघनरूपं अस्या अस्तीति सा । रूपिण्यै इति ॥
For Private and Personal Use Only