SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.54 ललितासहस्रनामस्तोत्रम् इति । 'पाशब्देन तु वेदार्थः पाखण्डास्तस्य खण्डका' इति तु निरुक्तिः । अत एवाह सदाचारप्रवर्तिकेति । सन्नुत्तमः सतां शिष्टानां वा सतो ब्रह्मणो वा आचार: सदाचारस्तस्य प्रवर्तिका । कर्मकाण्डोक्ते धर्मे ब्रह्मकाण्डोक्तेऽद्वैतब्रह्मणि चाभिरतिपूर्वकं तत्तत्प्राप्तिसाधनानि पुराणदिषूपदिशत्यनुष्ठापयतीति यावत् । उक्तञ्च कूर्मपुराणे भगवत्यैव 'अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद्ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः॥ अन्यान्युपपुराणानि तच्छिष्याकृतानि तु । युगे युगे तु सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिःशास्त्रं न्यायविद्या सर्वेषामुपबृंहणम् ॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ एवं पैतामहं धर्म मनुव्यासादयः परम । स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम् ॥ इति ॥ १२९ ॥ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका । आध्यात्मिकाधिभौतिकाधिदैविकाख्यानां तापानां त्रयं यस्य तेनाग्निना संसारलक्षणेन सम्यक् तप्तानां जनानां सम्यगाह्लादनेनापहरणपूर्वकानन्दनविषये चन्द्रिकेव वा। तरुणी तापसाराध्या तनुमध्या तमोपहा ॥ १३० ॥ अजरोऽमृत' इति श्रुतेर्नित्यतारुण्यवत्वात्तरुणी । '-तरुणतलुनानामुपसंख्यान मिति वार्तिकावयवेन डीप् । तापसैस्तपस्विभिराराध्या | तापस्तज्जनकः संसारस्तत्र सारभूता आध्या आसमन्ताद् ध्यानं यस्या इति वा । तनुः कृशो मध्यो यस्याः सा । काञ्चीदेशे तनुमध्याख्या देवी प्रसिद्धा । यदाह-'मां पातु निवायास्तीरे निवसन्ती । बिल्वेश्वरकान्ता देवी तनुमध्या ।' तनुमध्याख्यसमवृत्तविशेषरूपा वा । तथा च पिङ्गलसूत्रम्-'तनुमध्या आध्यात्मिकादि यत्तापानां त्रयं तत्कर्ता अग्निः संसाररूपः तेन सन्तप्तानां समाह्लादने तापनिवारणेनानन्दोत्पादने चन्द्रिकेव स्थिताः । चन्द्रिकायै इति ॥ तरुणी जरामरणाभावेन नित्यतारुण्यात् । तरुण्यै इति ॥ तापसैस्तपस्विभिराध्या । आराध्यै इति ॥ तनुः कृशो मध्यो यस्याः सा । मध्यायै इति ॥ भक्तानां तमांसि अविद्यावृत्तीर्हन्तीति सा । अपहायै इति ॥ १३० ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy