________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
152
ललितासहस्रनामस्तोत्रम्
इति । अत्र मलमायाशब्दावणुभेदपरौ । एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः । तत्र ये पक्वमलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशान्मन्त्रेश्वरतामाप्ता वर्तन्ते । ते च शतरुद्राख्या अष्टौशतमण्डलिनोऽष्टौ क्रोधभट्टारकादयो वीरेश्वरः श्रीकण्ठेश्चेति द्वाविति । अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्वमलत्रयांस्तु भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव । तदुक्तम्
'मलादीनामपाके तु सामान्यानुग्रहो भवेत् । अधिकारिकमैश्वर्यं
शिवानुग्रहमात्रतः ॥
पशवस्त्रप्रकारास्तु प्राप्नुयुः परमेश्वरि ॥'
इति । 'नानायोनिषु पाकाय नियुङ्क्तेऽनुजिघृक्षयेति च । अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः । तेऽपि तयोः परिपाकतदभावाभ्यां द्विविधाः । तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते । आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भवन्ति । तदुक्तं स्वच्छन्दसंग्रहे
'मिश्राः प्रमातृरूपाः प्रलयाकलसंज्ञकाः । पुर्यष्टकशरीराव पृथक्कर्मवशात्प्रिये ॥ सर्वयोनिषु सम्प्राप्य भोगाद्यं स्वस्वकर्मणाम् । भुक्त्वा भोगानि तेषां तु कर्मसाम्ये शिवः स्वयम् ॥ सुपक्वमलकर्माणस्तान्किञ्चिदनुगृह्य
च ।
जलतत्त्वादितत्त्वानां मध्ये लोकेश्वरास्त्रिधा ॥
स्युः
इति । आणवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तम्'मलमात्रेण सम्बद्धः पशुर्विज्ञानकेवलः । सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये ॥'
इति । आगमिका अप्याहुः
Acharya Shri Kailassagarsuri Gyanmandir
इति । तेऽपि समाप्तकलुषा असमाप्तकलुषाश्चेति द्विविधाः । तत्राद्या विद्येश्वराः । अन्त्यास्तु सप्तकोटिमहामन्त्रात्मकाः । न च तेषां जडत्वमिति शङ्क्यम् । शब्दरूपशरीराणां जडत्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः । अत एव मृगेन्द्रसंहितायाम्
'अथानादिमलापेतः सर्वकृत्सर्वदृक् शिवः । पूर्वं व्यत्यासितस्याणोः पाशजालमपोहति ॥'
'भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम् । जडवर्गस्य विधत्ते सर्वनुग्राहकः शम्भुः ॥
For Private and Personal Use Only