SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra इंति । स्पष्टतरमुक्तं शैवसूत्रवार्तिक सौभाग्यभास्कर - बालातपासहितम् अज्ञानं बन्धः । www.kobatirth.org 'नन्वेवंविधविश्वस्य चैतन्यं चेद्वपुस्तदा । कथं बन्धस्य सम्बन्ध इति शङ्कां व्यपोहितुम् ॥ अश्लेषश्लेषपाठाभ्यां सूत्रमाह महेश्वरः । 'अज्ञानमिति तत्राद्यं चैतन्यस्फाररूपिणी । आत्मन्यनात्मताज्ञानं ज्ञानं पुनरनात्मनि ॥ देहादावात्ममानित्वं द्वयमप्येतदाणवम् । योनिवर्गः कलाशरीरम् । मलं स्वकल्पितं स्वस्मिन्बन्धस्वेच्छाविभाविताः ॥ किमाणवमलात्मैव बन्धोऽयं नेत्युदीर्यते ।' 'योनिर्भेदप्रथाहेतुर्मायावर्गस्तदुत्थितः कालादिक्षितिपर्यन्ततत्त्वराशिस्तदात्मकः Acharya Shri Kailassagarsuri Gyanmandir मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम् । कलेति कायमाविश्य परिच्छेदकरी नृणाम् ॥ व्यावृत्तिः पुण्यपापात्मा शरीरं यस्य तत्पुनः । कार्मणं मलमेतस्मिन्द्वये धोऽनुवर्तते ॥ 'पशवस्त्रिप्रकाराः स्युस्तेष्वेके सकला मताः । प्रलयाकलनामानस्तेषां चिन्महेश्वरि ॥ विज्ञानकेवलास्त्वन्ये तेषां रूपं क्रमाच्छृणु ।' इति । एवंभूतेषु त्रिषु पाशेष्वेकेन द्वाभ्यां त्रिभिरपि बन्धप्रयुक्ता जीवा अपि त्रिविधाः पशुपदेनोच्यन्ते । यद्यपि त्रयाणां प्रस्तारेष्वेककास्त्रयो द्विकास्त्रयस्त्रिक एक इति सप्तधा जीवाः सम्पद्यन्ते तथाप्यणुकर्मभेदानामुत्तरोत्तरस्य पूर्वपूर्वव्याप्यत्वनियमात्तिन एव पशोर्विधाः । ते च पशवो नित्याहृदये शुद्धमिश्राशुद्धपदैर्व्यवह्रियन्ते । स्वच्छन्दतन्त्रादौ तु विज्ञानकेवलाः प्रलयाकलाः सकला इति व्यवहृताः । तथा चोक्तम् इति । तेषु त्रिभिरपि पाशैर्बद्धः सकलः । तदुक्तम्— 'अनादिमलसञ्छन्नो मायाकर्मावृतो विभुः । शरीरशिवतत्त्वज्ञो भेदैकरसिको लघुः ॥ सर्वदा कर्मकर्ता च स्वकर्मफलभोजकः । नित्यं विषयसंरक्तः सकलः पशुरुच्यते ॥ For Private and Personal Use Only 151
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy