________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
ललितासहस्रनामस्तोत्रम् इति संहत्य द्विपञ्चाशत् । तामिस्रस्याप्यष्टादशविधत्वमाश्रित्य द्विषष्टि: पाशा इति केचित् । एते च क्लेशा वैषयिकयोगितत्वज्ञरूपपशुत्रैविध्यात्तांस्तान्प्रति विलक्षणाः । तदुक्तं देवीभागवते
'प्रसुप्तास्तत्त्ववेत्तृणां दग्धदेहास्तु योगिनाम् ।
अविच्छिन्नोदाररूपाः क्लेशा विषयसङ्गिनाम् ॥' इति । यत्तु कुलार्णवे
'घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी ।
कुलं शीलं च जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः ॥' इति तदविद्यादिक्लेशपञ्चकस्योक्तेष्वेव द्विपञ्चाशद्भेदेषु कतिपयानामवयुत्यानुवादः । ते च भेदा विस्तारभयोन्नोक्ताः । इत्थञ्च मूले पशुशब्द उक्तपरिभाषयैकपञ्चाशत्संख्यापरोऽपि प्रत्यासत्तिसम्बन्धेन लक्षणया द्विपञ्चाशत्परः । 'नित्यानन्दवपुर्निरन्तरगलत्पञ्चाशदर्णैः क्रमादिति शारदातिलकश्लोके पञ्चाशत्पदस्येदृशलक्षणयैव हर्षदीक्षितादिभिरेकपञ्चाशत्परत्वेन व्याख्यानात् । तेन पशुसंख्यान् द्विपञ्चाशत्पाशान्विमोचयतीत्यर्थः । तदुक्तं शिवरहस्ये
'पञ्चक्लेशैपिञ्चाशत्पाशैर्बजाति यः पशून् ।
स एव मोचकस्तेषां भक्त्या सम्यगुपासिते ॥ इति तु पौराणिकरीत्या निष्कर्षः । अथवा अणुर्भेद: कर्म चेति त्रय: पाशाः तत्राज्ञानमणुः । तच्च चैतन्यस्वरूपे आत्मन्यात्मत्वज्ञानाभावो देहादावनात्मन्यात्मत्वज्ञानं चेति द्विविधम् । द्विविधमप्येतत्सम्भूयाणवं मलमित्युच्यते । अणुपदवाच्यत्वं चास्यापरिच्छिन्नस्याप्यात्मनः परिच्छेदकत्वात् । तदुक्तं सौरसंहितायाम् 'आत्मनोऽणुत्वहेतुत्वादणुर्मालिन्यतो मल मिति । एकस्यैवात्मनो नानात्वं तु भेदः । तत्र मूलकारणं मायाख्यं तत्त्वेषु षष्ठमेकम् । तज्जन्यं सप्तमादिषट्त्रिंशान्ततत्ववृन्दमपरमिति द्विविधमपि मायीयं मलमुच्यते । विहितनिषिद्धक्रियाजन्यं शरीरदानक्षममदृष्टं तु कर्म । तदपि पुण्यपापभेदेन द्विविधमपि सम्भूय कार्मणं मलमुच्यते । एतेष्वणुकर्मभेदेषूत्तरोत्तरं पूर्वपूर्वव्याप्यं सर्वमिदमभिहितं प्रत्यभिज्ञाशास्त्रे
'स्वातन्त्र्यहानिर्बोधस्य स्वतन्त्रस्याप्यबोधता। द्विधाण मलमिदं स्वस्वरूपापहारतः॥ भिन्नवेद्यप्रथात्मैव मायीयं जन्मभोगदम् । कर्तव्यबोधकार्म तु मायाशक्त्यैव तत्त्रयम् ॥'
For Private and Personal Use Only