SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 149 सौभाग्यभास्कर-बालातपासहितम् ब्रह्मायाः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः ॥ चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति । विषया अपि कीर्त्यन्ते पाशजीवनिबन्धनात् ॥ तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिनः।' इति । अथवा अविद्याऽस्मिता रागो द्वेषोऽभिनिवेशश्चेति पञ्चविध: क्लेश: । आत्मानात्मविवेकाभावोऽविद्या । अनात्मनि देहादावात्मत्वविपर्ययोऽस्मिता । तेन च देहोपभोगकरणे सक्चन्दनादावभिलाषो रागः । तत्प्राप्तिपरिपन्थिनि क्रोधो द्वेषः । तदिदमहितमिति ज्ञात्वाप्यज्ञवत्तदपरित्यागोऽभिनिवेश इति । तदिदं योगसूत्रे प्रथमपादोपान्त्यसूत्रेणोद्देशमात्रं कृत्वा द्वितीयपादे पञ्चभिः सूत्रैः सलक्षणमुक्तम् । यत्तूक्तं देवीभागवते 'तमोविवेको मोहः स्यादन्तःकरणविभ्रमः । महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा ॥ मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते । अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः॥ इति । तत्र तमःप्रभृतीन्यविद्यादीनामेव नामान्तराणि । मरणशब्दो मिथ्याभिनिवेशपरः । तदिदमुक्तं लैङ्गे 'अविद्यामस्मितां राग द्वेषं च द्विपदां वर । वन्दत्यभिनिवेशं च क्लेशान्पाशत्वमागतान् ॥ तमो मोहो महामोहस्तामिस्रमथ पण्डिताः। अन्धतामिस्रमित्याहुः क्लेशान्वै पञ्चधास्थितान् ॥ अविद्या तम इत्याहुरस्मिता मोह इत्यपि । रागं चैव महामोहं द्वेषस्तामिसमित्यपि ॥ अन्धतामिस्रकं मिथ्याभिनिवेशं प्रचक्षते । इति । एतेषा पञ्चानां क्लेशाना प्रभेदा अपि तत्रैव 'तमसोऽष्टविधो भेदो मोहश्चाष्टविधः स्मृतः। महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः ॥ अष्टौ विधास्तथा प्रास्तामिस्रस्य विचक्षणाः। अन्धतामिस्रभेदाश्च तथाष्टादश कीर्तिताः॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy