SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 147 विशिष्टो जयो यस्याः सा विजया संविद्रूपा वा । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'विजयं चैव काश्मीर' इति गणित इति शिवस्वरूपा वा । तत्रैव निर्वचनाध्याये-- 'विजित्य पद्मनामानं दैत्यराजं महाबलम् । त्रिषु लोकेषु विख्याता विजया चापराजिता ॥ इति । विश्वकर्मशास्त्रप्रसिद्धविजयाख्यगृहविशेषरूपा वा । विजयाख्यो मुहुर्त उक्तश्चिन्तामणौ 'आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः॥ इति । रत्नकोशे तु 'ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुन्निद्रतारकः। विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ॥ एकादशो मुहूर्तो यो विजयः परिकीर्तितः। तस्मिन्यात्रा विधातव्या सर्वैर्विजयकाङ्क्षिभिः॥ इति तादृशकालरूपेत्यर्थः । विगतो मल आविद्यको यस्याः सा विमला । पाये'विमला पुरुषोत्तमे' इति देवीतीर्थेषु परिगणितमूर्तिविशेषरूपा वा । गृहविशेषरूपा वा । तदुक्तं विश्वकर्मशास्त्रे गृहानधिकृत्य 'धुवं धान्यं जयं कान्तं विपुलं विजयं तथा। सुमुखं विमलं नन्दं निधनं च मनोरमम् ॥' इति । वन्दितुं योग्या वन्द्या । योग्यतामेवाह-वन्दार्विति । वन्दन्ते ते वन्दारवः । 'शूवन्द्योरारु रित्यारुप्रत्ययः । तादृशान् जनान्वत्सवल्लात्यनुगृह्णाति 'वत्सांसाभ्यां कामबल' इति लप्रत्ययो वा । वाग्वादिनी वामकेशी वह्रिमण्डलवासिनी ॥ १२८ ॥ वाचं वदतीति वाग्वादिनी काचिद्देवता तद्रूपा वा । वाचं वादयतीति वा । एतन्निर्वचनं च त्रिपुरासिद्धान्ते 'सर्वेषां च स्वभक्तानां वादरूपेण सर्वदा । स्थिरत्वाद्वा च विख्याता लोके वाग्वादिनीति सा॥ वाचं वदति यस्याः सा । वाग्वादिन्यै इति ॥ वामाः सुन्दराः केशाः यस्याः सा । केश्य इति ॥ वह्नेमण्डले प्रातःसन्ध्यायां ध्येयत्वेन वसतीति सा । वासिन्यै इति ॥ १२८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy