________________
Shri Mahavir Jain Aradhana Kendra
146
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
'चतुर्विंशतितत्त्वानि क्षेत्रशब्देन सूरयः । आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति । वायुपुराणे तु 'अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यत' इत्युक्तम् | ब्रह्मपुराणेऽपि - 'क्षेत्राख्यानि शरीराणि तेषां चैव यथासुखम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥'
इति । मनुस्मृतौ तु—
'योsस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥ तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ असंख्या मूर्तयस्तस्य निः पतन्ति शरीरतः । उच्चावचानि भूतानि सन्ततं चेष्टयन्ति याः ॥ इत्युक्तम् । क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ १२७ ॥
क्षयवृद्ध्योः क्षेत्रसम्बन्धिभावविकाररूपत्वेन तदधिष्ठातृत्वेऽपि ताभ्यां विनिर्मुक्ता । 'नैनं छिन्दन्ति शस्त्राणी'त्यादिस्मृतेः । कर्मकृताभ्यां वा ताभ्यां विनिर्मुक्ता । एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयानिति काठकश्रुतेः । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानिति वाजसनेयश्रुतेश्च । दारुकासुरवधार्थं शिवेन काली निर्मिता सती दारुकं हतवती । तदुत्तरमप्यशान्तेन तस्याः क्रोधाग्निना जगदाकुलमालोक्य शिवस्तत्क्रोधनिरासाय बालो भूत्वाऽरोदीत् । सा तं बालं स्तनावपाययत् । स पयोद्वारा तस्याः क्रोधाग्निमपि पपौ सोयं क्षेत्रपाल: शिवावतारविशेष इति कथा लैङ्गादिषु प्रसिद्धा । क्षेत्रं यागायतनं पालयतीति व्युत्पत्तिः । तेन सम्यगर्चिता ॥ १२७ ॥
विजया विमला वन्द्या वन्दारुजनवत्सला ।
क्षयवृद्धिभ्यां भावविकाराभ्यां विनिर्मुक्ता । मुक्तायै इति ॥ क्षेत्रपालः शिवावतारविशेषः तेन सम्यगर्चिता । अर्चितायै इति ॥ १२७ ॥
1
विशिष्टो जयो यस्याः सा । जयायै इति ॥ विगतः मलः आणवादिर्यस्याः सा । विमलायै इति ॥ वन्दितुं योग्या वन्द्या । वन्द्यायै इति ॥ वन्दारवः वन्दनकर्त्तारो ये जनाः तेषु वत्सला अनुग्रहदृष्टियुता । वत्सलायै इति ॥
For Private and Personal Use Only