SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 145 सौभाग्यभास्कर-बालातपासहितम् इत्युक्तम् । विष्णोर्व्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि माया आवरणकी । परिच्छेदिकेति यावत् । तत्सम्बन्धिनी मायेति वा । 'दैवी ह्येषा गुणमयी मम माया दुरत्ययेति भगवद्वचनात् । कालिकापुराणेऽप्युक्तम् 'अव्यक्तव्यक्तरूपेण रजःसत्त्वतमोगुणैः । विभज्य यार्थ कुरुते विष्णुमायेति सोच्यते ॥ इति । विलासो विक्षेपशक्तिरस्या अस्तीति तथा । पीठशक्तिविशेषरूपा वा । 'नित्या विलासिनी दोग्ध्री'त्यादिना तासु परिगणनात् । बिले ब्रह्मरन्ध्रे आस्त इति वा विलासिनी । तदुक्तं स्वच्छन्दतन्त्रे-तत्र ब्रह्मविलं ज्ञेयं रुद्रकोट्यर्बुदैर्वृत मिति प्रस्तुत्य 'ब्रह्माणीत्यपरा शक्तिब्रह्मणोत्सङ्गगामिनी। द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥ इति ॥ १२६ ॥ अथ परिभाषायामष्टत्रिंशन्नामानि विभजते मृगजो द्विर्बालः खे जीवाभं पञ्चपादार्धम् । गुणभूवरतेजोर्धं रतिगुणलेशो दहेद्गणं दुरितम् ॥१६॥ द्विरित्यष्टाक्षरे द्वे नामनी ॥ १६ ॥ क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी । क्षेत्रं कामरूपादिकं वसुधादिशिवान्तषट्त्रिंशत्तत्त्वात्मकं शरीरं वा । तत्स्वं निजं रूपं यस्याः सा । तथा च लैङ्गे 'बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा । क्षेत्रज्ञत्वमजो धत्ते भगवानन्तकान्तकः॥ इति क्षेत्रस्य शरीरस्येशः शिवस्तस्येयं क्षेत्रेशी । क्षेत्रज्ञो जीवस्तं क्षेत्रञ्च पालयतीति क्षेत्रक्षेत्रज्ञपालिनी । तथा च विष्णुस्मृतौ 'इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।' इति गीतास्वप्येवमेव कौन्तेयभारतसम्बोधनाभ्यां घटितमिदमेव । लैङ्गेऽपि क्षेत्रं शरीरं स्वरूपं यस्याः सा । स्वरूपायै इति ॥ क्षेत्रस्य शरीरस्येशः शिवः तस्य पत्नी । ईश्यै इति ॥ क्षेत्रक्षेत्रज्ञो शरीरजीवौ पालयतीति सा । पालिन्यै इति । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy