SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 ललितासहस्रनामस्तोत्रम् इति । कामा चासौ कलारूपा चेति वा । कामपदमात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् 'कामार्थमागता यस्मान्मया साधं महागिरौ । कामाख्या प्रोच्यते देवी नीलकूटरहोगता ॥ कामदा कामिनी काम्या कान्ता कामाङ्गदायिनी। कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यते ॥ इति । कदम्बकुसुमानि नीपपुष्पाणि प्रियाणि यस्याः सा | कल्याणी जगतीकन्दा करुणारससागरा ॥ १२४ ॥ मङ्गलस्वरूपत्वात्कल्याणी । पाने देवीपुराणे च 'कल्याणी मलयाचल 'इति परिगणितमूर्तिविशेषरूपा । शुभात्मका वाणी कल्या तामेवाणति शब्दायतेऽसौ कल्याणी । जगत्या: कन्दः पूरणं मूलं वा यस्याः सा । 'कन्दः स्यात्पूरणे सस्यमूले जलधरेऽपि चेति यादवः । करुणैव रसो येषु तादृशाः सागरा: यस्यां सा । सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत् । तत्पुरुषपक्षे कन्दसागरपदयोः परवल्लिङ्गतया पुंस्त्वापत्तिः ॥ १२४ ॥ कलावती कलालापा कान्ता कादम्बरीप्रिया । चतुःषष्टिसंख्याः कला अस्यां सन्तीति कलावती । कल एवालापो भाषणं यस्याः सा । कलो मञ्जुल आलापो यस्या इति वा । 'ध्वनौ तु मधुरास्फुटे । कल'इत्यमरः । कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभ: आपः प्राप्तिर्यस्याः सकाशादिति वा । कं लालापं लालाजलप्रायं ययेति वा । अपां समूह आपम् 'ऋक्पूरब्धूरिति समासान्तो वा । कान्ता कमनीयत्वात् । कं ब्रह्मैवान्त: सिद्धान्तो यस्या इति वा । कृष्णैकादशीरात्रिरूपा वा । कादम्बरी उत्तमा मदिरा सैव प्रिया यस्याः । अत एव श्रुतिः परिसुतं झषमाद्यं पलं च भक्तानि योनीः सुपरिष्कृतानि । निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेति ॥ इति । कल्याणी शुभरूपा । कल्याण्यै इति ॥ जगत्याः प्रपञ्चस्य कन्दं मूलं यस्याः सा । कन्दायै इति ॥ करुणैव रसो येषु तादृशाः सागराः यस्या सा । सागरायै इति ॥ १२४ ॥ ___कलाश्चतुःषष्टिसंख्याः अस्यां सन्तीति सा | कलावत्यै इति ॥ कला मधुरा आलापाः वचनानि यस्याः सा । अलापायै इति ॥ कान्ता कमनीयत्वात् । कान्तायै इति ॥ कादम्बरी मदिरा प्रिया यस्याः सा । प्रियायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy