SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 140 ललितासहस्रनामस्तोत्रम् राजराजो मनुः कुबेरश्च ताभ्यामर्चितोपासिता, कुबेरादिविद्यारूपा वा । अतएव चतुर्दश-पञ्चदशप्राकारयोर्मध्यभूमिं वर्णयतोक्तं दुर्वासामुनिना Acharya Shri Kailassagarsuri Gyanmandir 'तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥ इति । तल्लोकेति तत्पदस्य वायुरर्थः । राजराजेश्वरस्य पट्टमहिषीत्वाद्राज्ञी | रम्या सौन्दर्यवती । राजीवशब्देन पद्मं हरिणो मत्स्यो वा गृह्येते । तद्वल्लोचने यस्याः सा राजीवलोचना | 'राजीवाख्या मृगे मत्स्ये पद्मे राजोपजीविनी 'ति विश्वः । राजोपजीविनो लोचयति पश्यतीति वा । रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ १२२ ॥ भक्तान् रञ्जयतीति रञ्जनी । शुद्धस्फटिकसंकाशं परमशिवमरुणादेवीजपाकुसुमवत्सान्निध्यमात्रेण रञ्जयतीति वा । भक्तान् रमयति तैः सह क्रीडतीति रमणी । 'जक्षन् क्रीडन् रमयाण' इति श्रुतेः । रसयितुमास्वादितुं योग्या रस्या | 'रसो वै स' इति श्रुतेः । रणन्त्यः किङ्किणयः क्षुद्रघण्टिका यस्यां तादृशी मेखला रशना यस्याः सा ॥ १२२ ॥ रमा राकेन्दुवदना रतिरूपा रतिप्रिया । सूतसंहितायाम्– 'लक्ष्मीवागादिरूपेण नर्तकीव विभाति येत्युक्तरीत्या लक्ष्मीस्वरूपत्वाद्रमा | 'कलाहीने सानुमतिः पूर्णे राका निशाकरे' इत्याग्नेयपुराणस्थकोशबलाद्राकेन्दुवत्पूर्णचन्द्रवद्वनं यस्याः । रतिरेव रूपं यस्याः कामपत्नीत्वात् । रमा ईकारः । राकेन्दुवदना अनुस्वारसहिता चेद्रतिरूपा कामकला भवतीत्युद्धारः । रतिः कामपत्नी रतं वा प्रियं यस्याः । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ १२३ ॥ भक्तान् रञ्जयतीति सा । रञ्जिन्यै इति ॥ भक्तान् रमयतीति सा । रमण्यै इति ॥ योगिभिः रसयितुम् आस्वादयितुं योग्या । रस्यायै इति ॥ रणत्किङ्किणीयुक्ता मेखला यस्याः सा । मेखलायै इति ॥ १२२ ॥ श्रीरूपत्वाद्रमा । रमायै इति ॥ राकेन्दुः पूर्णचन्द्रः तत्तुल्यं वदनं यस्याः सा । वदनायै इति ॥ रतिरिव कामपत्नीव जगन्मोहनं रूपं यस्याः सा । रूपायै इति ॥ रतिः प्रिया यस्याः सा । प्रियायै इति ॥ भक्तानां रक्षां करोतीति सा । कर्ये इति ॥ राक्षसान् हन्तीति सा । राक्षसन्यै इति ॥ स्त्रीरूपत्वाद्रामा | रामायै इति ॥ रमणे पुरुषे कामेश्वरे लम्पटा लालसा । लम्पटायै इति ॥ १२३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy