SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 ललितासहस्रनामस्तोत्रम् जलपरो वा । हृल्लेखाभिमानिदेवतारूपा वा । हृल्लेखात्मकमन्त्रस्वरूपा वा । त्रिपुरासिद्धान्ते तु 'भुवनानन्दनाथस्य प्रसन्नत्वान्महेश्वरी। भुवनेष्वतिविख्याता शाम्भवी भुवनेश्वरी ॥' इत्युक्तम् । भुवनानन्दनाथो नाम मानवौघान्तर्गतो गुरुविशेषः । दक्षिणामूर्ति- संहितायां तु घटार्गलयन्त्रपटले 'एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनानि त्वि'त्युपक्रम्य हृल्लेखाघटकाक्षरेषु हकारादिषु 'व्योमबीजे महेशानि कैलासादिप्रतिष्ठित मित्यादिना प्रत्येकं भुवनादिसद्भावं प्रतिपाद्य 'अत एव महेशानी भुवनाधीश्वरी स्मृते'त्युपसंहृत्य 'हकाराद्व्योमतुर्येण स्वरेणानिलसम्भव' इत्यादिना भुवनजनकत्वमप्युक्त्वा 'अत एव महेशानी भुवनेशीति कथ्यत' इत्युपसंहारेण द्वेधा निरुक्तम् ।। अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ १२० ॥ अम्बैवाम्बिका | जगन्माताभारतीपृथ्वीरुद्राण्यात्मकेच्छाज्ञानक्रियाशक्तीनां समष्टिरम्बिकेत्युच्यते तद्रूपा वा । रात्रिरूपा निद्रारूपा वा । 'अम्बिका कैतवे सिद्ध निद्रायां निशि कीर्त्यत' इति विश्वः । उक्तञ्च नवरात्रदीपे स्कान्दे-रात्रिरूपा महादेवी दिवारूपो महेश्वर' इति । हरिवंशेऽपि 'या ह्येषा गह्वरी माया निद्रेति जगति स्थिता । तस्यास्तनुस्तमोद्वारि निशादिवसनाशिनी ॥ जीवितार्धहरी घोरा सर्वप्राणिभृतां भुवि । नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः॥ सक्तः प्रसहितुं वेगं मजन्निव महार्णवे । देवीष्वपि दधारैनां नान्यो नारायणादृतः ॥ इति | मार्कण्डेयपुराणेऽपि 'विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणीम् । स्तौमि निद्रां भगवतीं विष्णोरतुलतेजसः ॥ इत्यादि । आदिर्जननं निधनं मरणञ्च न विद्यते यस्याः साऽनादिनिधना । अथवाऽनादिशब्दादादिशब्दाद्वा वररुचिपरिभाषानुसारेणाशीतिसंख्योच्यते । आदिसंख्याकानि च तानि निधनानि च । आयुघृतमितिवत्साधनलक्षणया मरणसाधनान्यमृतत्वविघातकानीति यावत् । न विद्यन्ते आदिनिधनानि यस्या उपासनया अम्बैवाम्बिका जगन्माता । अम्बिकायै इति ॥ आदिनिधने जन्ममृत्यू न विद्यते यस्याः सा । निधनायै इति । हरिब्रह्मेन्द्रैः सेविता । सेवितायै इति ॥ १२० ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy