________________
Shri Mahavir Jain Aradhana Kendra
132
ललितासहस्रनामस्तोत्रम्
इत्यादिनान्तर्यामिब्राह्मणोपबृंहणपूर्वकं समर्थ्योपसंहृतम् । 'श्रुत्यनुग्राहकेणापि ग्राह्यस्तर्केण शङ्करः ।
सर्वात्मना साक्षाद्धर्माधर्मफलप्रदः ॥'
इति ॥ ११८ ॥
www.kobatirth.org
अतः
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
एवं कर्मकाण्डस्य क्रियार्थत्वमुक्त्वा ब्रह्मकाण्डस्य सिद्धवस्तुप्रतिपादनपरत्वमपि मातुराज्ञैवेत्याह । श्रुतीनां सीमन्ता ऊर्ध्वभागसाम्यादुपनिषदां भागास्तेषु सिन्दूरवत्तदन्तर्गतरहस्यार्थवत्सम्पद्यमाना कृता पादाब्जधूलिश्चरणकमलरजो यया सा तथोक्ता । अत्र विषयस्योपनिषदादेर्निगरणाद्रूपकातिशयोक्तिः । श्रुतिशब्दस्य स्त्रीलिङ्गत्वादिवशादप्रस्तुतनायिकामण्डनप्रतीतेश्च समासोक्तिः । ताभ्यामलङ्काराभ्यां वस्तुनो ध्वनिः । वेदा अपि भगवत्याः स्वरूपं शृङ्गग्राहिकया विधिमुखेन प्रतिपादयितुमसमर्था एव । इतरनिषेधमात्रं कुर्वन्तस्तु दूरादेव लज्जिता इव भीता sa वा यथाकथञ्चित्प्रतिपादयन्तीव । तदिदं प्रतिपादनमित्थमिति ज्ञानाजननादत्यल्पतममिति धूलिपदेन ध्वन्यते ।
एतदपि च न वेदानां सामर्थ्यादपि तु मातुराज्ञयैवेति विप्रत्ययेन ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे
'सर्वज्ञाः श्रुतयोऽपि याः परशिव त्वत्प्राणरूपाः प्रियाः शृङ्गग्राहिकया त्रपाभृत इव त्वां न प्रजल्पन्ति ताः । अन्यानेव तु नेति नेति बहुशो वाचा निषेधन्ति चेत् कोऽन्यस्त्वामिदमित्थमित्यनुवदेत्तत्रापि मादृग्जनः ॥'
इति । विधिमुखेन प्रतिपादयन्तस्त्वागमाः स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव निर्दिशन्तीत्याह ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ११९ ॥
सकलाश्च ते आगमा वेदाश्च तेषां सन्दोहा: समूहा एव शुक्तयस्ताभिः सम्पुटं पुटितं गर्भीकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा तथोक्ता । मौक्तिकपदं
श्रुतिरूपायाः स्त्रियः सीमन्ते मूर्धभूते उपनिषद्भागे सिन्दूर इव सम्पद्यमाना पदाब्जयोधूलिकारजः यस्याः सा । धूलिकायै इति ॥
सकला नाङ्गोपाङ्गसहितानाम् आगमानां वेदानां यः सन्दोहः समुदायः । तद्रूपं यत् शुक्तिसम्पुटं मिलितं मुक्ताशुक्तियुगलं तस्मिन्मौक्तिकमिवस्थिता । मौक्तिकायै इति ॥ ११९ ॥
For Private and Personal Use Only