________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
131
सौभाग्यभास्कर-बालातपासहितम् कर्मकाण्डात्मका वेदा यस्यास्तथा । अत एव 'तद्भूतानां क्रियार्थेन समाम्नाय' इति जैमिनिः । कौमेऽपि
'ममैवाज्ञा परा शक्तिर्वेदसंज्ञा पुरातनी।
ऋग्यजुःसामरूपेण सर्गादौ सम्प्रवर्तते ॥ इति । अथवा सन्ति वेदानुयायीनि शैवतन्त्राणि कामिकादीन्यष्टाविंशति: वेदविरुद्धानि कापालभैरवादीनि च । तेषु वैदिकानि निगमपदवाच्यानि परमेश्वरस्य मुखादुद्भूतत्वादाज्ञारूपाणि न पुनर्नाभ्यधोभागादुत्पन्नानि वेदविरुद्धानीत्यर्थः । तदुक्तं देवीभागवत-स्कान्दयोः -
'सद्योजातमुखाज्जाताः पञ्चाद्याः कामिकादयः। वामदेवमुखाज्जाता दीप्ताद्याः पञ्च संहिताः॥ अघोरवक्त्रादुद्भूताः पञ्चाप्तिविजयादयः । पुंवक्त्रादपि सम्भूताः पञ्च वैरोचनादयः॥ ईशानवदनाज्जाताः प्रोद्गीताद्यष्टसंहिताः।
ऊर्ध्वस्रोतोभवा एते नाभ्यधःस्रोतसः परे ॥ इत्यादि । एवं व्यवस्थापिते वर्णाश्रमधर्मात्मके वेदे विहिताचरणनिषिद्धाचरणाभ्यां सदसत्फलमपि व्यवस्थादाार्थं मातैव ददातीत्याहपुण्यापुण्येति । पुण्यपापयोः फले स्वर्गनरको प्रददातीति तथा । तदुक्तं कौर्मे
'ये न कुर्वन्ति तद्धर्म तदर्थं ब्रह्मणा कृताः। निरयांस्तेषु शमनः पातयेत्तान्मदाज्ञया ॥ धर्म कुर्वन्ति वेदोक्तं ये मद्भक्तिपरायणाः ।
स्वर्गादिषु शचीशाद्यास्तान्नयन्ति मदाज्ञया ॥ इति । अन्यत्रापि- 'ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेति । 'क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमता'मित्यादि । शिवरहस्ये श्रुतिरपि-'एष एव साधु कर्म कारयति यमुन्निनीषत्येष एव ह्यसाधु कर्म कारयति यमधोनिनीषतीति । 'फलमत उपपत्ते रिति ब्रह्ममीमांसाधिकरणेऽप्ययमेवार्थः साधितः । 'वैषम्यनैघृण्ये अपि कर्मसापेक्षत्वान्न भवत' इति च तत्रैवोक्तम् । सौरसंहितायामपि
'ननु धर्मो ह्यधर्मश्च स्वस्वकर्ता ह्यधिष्ठितः । अन्तरेण महादेवं फलं कर्तुः प्रयच्छति ॥ इति चेत्तन्न साधूक्तम्...
For Private and Personal Use Only