SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 ललितासहस्रनामस्तोत्रम् आद्यन्तग्रहणेन प्रत्याहारन्यायेन तन्मध्यपतिताः सर्वेऽपि तन्मध्यमपरिमाणकशरीरधारिणो जीवा गृह्यन्ते । आङभिविधौ । ब्रह्मादिस्तम्बान्तजीवजातजनयित्रीत्यर्थः । एवं निर्मितानां जीवानां सन्मार्गप्रदर्शनाय स्वाज्ञारूपवेदात्मिका जाता । ___ तत्र कर्मकाण्ड-ब्रह्मकाण्डभेदेन द्विविधे वेदे कर्मणि तिर्यगधिकरणन्यायेन देवानां तिरश्चां चाधिकाराभावान्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन मातेव तत्तद्धर्मानपि व्यवस्थापयामासेत्याह-वर्णाश्रमेति । तथा च कूर्मपुराणे हिमवत्कृतदेवीस्तवानन्तरम् 'अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ शृणुष्व चैतत्परमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ ! सेवितं ब्रह्मवादिभिः ॥ इत्यादिना साधनान्युक्त्वा 'ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि। प्राप्याहं ते गिरिश्रेष्ठ ! नान्यथा कर्मकोटिभिः॥ इत्युपसंहृत्य कर्मयोगनिरूपणार्थं पुनरप्युक्तम् 'श्रुतिस्मृत्युदितं सम्यकर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ धर्मात्सआयते भक्तिभक्त्या सजायते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः॥ नान्यतो ज्ञायते धर्मो वेदाधर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थ मद्रूपं वेदमाश्रयेत् ॥ मदाज्ञयैव गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन्ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ इत्यादि । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ११८॥ निजां स्वीयामाज्ञां वेदविद्भिः शब्दभावनात्वेन व्यवहृतां रूपयन्ति साध्यसाधनेतिकर्तव्यतारूपांशत्रयविशिष्टामर्थभावनार्थवादादिभिः कुर्वन्ति तादृशा निगमाः निजा स्वकीया या आज्ञा तद्रूपाः । मिगमा वेदादिविद्याः यस्याः सा । निगमायै इति ॥ पुण्यपापयोः विहितनिषिद्धकर्मजन्ययोरदृष्टयोः फलं सुखदुःखरूपं प्रददानिति सा । प्रदायै इति ॥ ११८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy