SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 ललितासहस्रनामस्तोत्रम् इति । कोशे च प्रसिद्धा भगपदार्था अस्यां सन्तीति भगवती । देवीभागवते तु 'उत्पत्तिं प्रलयं चैव भूतानां गतिमागतिम् । अविद्याविद्ययोस्तत्त्वं वेत्तीति भगवत्यसौ ॥ इत्युक्तम् । शक्तिरहस्ये तु 'पूज्यते या सुरैः सर्वैस्तांश्चैव भजते यतः। सेवायां भजतिर्धातुर्भगवत्येव सा स्मृता ॥ इत्युक्तम् । पद्मनाभस्य विष्णोः सहोदरी एकोदरभघा भगिनी । एकमेव ब्रह्म धर्मी धर्मीति रूपद्वयं प्रापत् । तत्र धर्मः पुमान् स्त्रीति द्विधाभवत् । तत्र पुमान् विष्णुः सकलजगदुत्पादनभावं स्त्री तु परमशिवमहिषीभावं प्रापत् । एतत्त्रयमपि मिलित्वैकमखण्डं ब्रह्मेति शैवमतरहस्यं कूर्मपुराणादिषु प्रसिद्धं रत्नत्रयपरीक्षायां दीक्षितैविस्तरेण निरूपितम् । एतदभिप्रायेणैव ब्रह्मपुराणे पुरुषोत्तमक्षेत्रमाहात्म्ये 'या मेनाकुक्षिसम्भूता सुभद्रा पूर्वजन्मनि । कृष्णेन सह देवक्याः सास्मिजन्मनि कुक्षिगा ॥ इत्यादि स्मर्यते । यत्तु 'सुभद्राप्राणनाथाय जगन्नाथाय मङ्गल मिति तत्रैव पठ्यते । तत्र सुभद्रापदं लक्ष्मीपरं तात्त्विकाभेदाभिप्रायं वेति न कश्चिद्विरोध इति । अन्यत्रापि 'काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः। श्रीदेवीदर्शनार्थाय तपस्तेपे सुदारुणम् ॥ आत्मैक्यध्यानयुक्तस्य तस्य प्रतपतो मुनेः। प्रादुर्बभूव त्रिपुरा पद्महस्ता ससोदरा ॥ पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह । इति । अत्र कादिविद्याया वाग्भवकूटोद्धार: । पद्मासन: ककारः । भग एकारः । तद्वतीत्यत्र कामकलायाः प्रश्लेषः । पद्मनाभस्योपेन्द्रस्य सहोदर इन्द्रो लकार: । हश्च उदञ्च होदे हकारबिन्दू ताभ्यां सहिता सहोदा । सहोदा च सा रीचेत्यनेन हृल्लेखेति रहस्यम् ॥ ११६ ॥ उन्मेषनिमिषोत्पन्नविपन्नभुवनावली । उन्मेषनिमिषौ नेत्रविकाससङ्कोचौ ताभ्यामेव क्रमेणोत्पन्ना विपन्नाश्च सृष्टा नष्टाश्च भुवनानां ब्रह्माण्डानामावल्य: पङ्क्तयो। यस्यास्तथा । देव्या अनिमिषत्वेऽपि प्राणिकर्मवशेन तयोरुत्पत्तिसम्भवात् । इच्छामात्रे तात्पर्यात् । तदुक्तमाशावतारे उन्मेषनिमेषौ नेत्रोन्मीलननिमीलने क्रमेण ताभ्यां उत्पन्नाः सृष्टाः विपन्ना: नष्टा: भुवनानां लोकानाम् आवल्यः पङ्कयो यस्याः सा । आवल्यै इति ।। For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy