SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर- बालातपासहितम् भैरवीति संज्ञा । तन्मन्त्रात्मिकेति वा । द्वादशवर्षकन्यारूपा वा । 'द्वादशाब्दा तु भैरवीति कन्यां प्रकृत्य धौम्योक्तेः । भगं षाड्गुण्यं मलति धारयतीति भगमालिनी । 'मल मल्ल धारण' इति धातुः । मालापदाद्वा समष्टिवाचिनो व्रीह्यादित्वादिनिः । भगाङ्कवस्तुमात्ररूपा वा । तथा च लैङ्ग - देवीभागवतयोः -: 'ये ये पदार्था लिङ्गाङ्कास्ते ते शर्वविभूतयः । अर्था भङ्गाङ्किता ये ये ते ते गौर्या विभूतयः ॥' इति । तिथिनित्या विशेषरूपा वा । अस्या मन्त्रे तन्त्रराज - ज्ञानार्णवोद्धृतप्रकारमपेक्ष्य दक्षिणामूर्तिसंहितोद्धृतप्रकारे बहवो भगशब्दाः पठ्यन्ते । तदावरणदेवतानामान्यपि प्रायेण भगशब्दपूर्वाण्येवेति तद्बाहुल्याद्भगमालिनीवेयम् । ब्रह्मरूपत्वात्पद्मासना । प्रकृतिमयपत्रविकारमयकेसरसंविन्नालादिविशेषणशीलं पद्ममेवासनं पीठं यस्या वा पद्मां लक्ष्मीं सनति भक्तेभ्यो विभज्य ददातीति वा । 'वन षण सम्भक्तों । तदुक्तमभियुक्तैः · 'असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्वेहं भवति पृथुकार्तस्वरभृतम् । निविष्टः पल्यङ्के स कलयति कान्तारतरणं प्रसादं कोपं वा जननि भवतो यत्र कुरुते ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । प्रसादपक्षे असौ इति छेदः । कार्तस्वरं सुवर्णम् । पल्यङ्को मञ्चः । कान्तारस्य तरणमिति । कोपपक्षे असौभाग्यमित्येकं पदम् । अयं इति छेदः । विचित्रं विगतचित्रम् । पृथुकानामार्तस्वरः । पल्या अङ्के कान्ताया रते रणमिति श्लेषेण योज्यम् | 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा ॥' इति । कालिकापुराणे पद्मासना भगवती पद्मनाभसहोदरी ॥ ११६ ॥ पद्मः शूरः पद्मासुरस्तमस्यति क्षिपतीति वा । बिन्द्वादिसम्भवदर्थान्तरमपि योज्यम् | 'पद्म स्यादम्बुजव्यूहनिधिसंख्या हि बिन्दुष्विति रभसः । 127 'भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु । यशोवीर्यप्रयत्नेच्छाधर्मश्रीरविमुक्तिषु ॥' For Private and Personal Use Only पद्मम् आसनं पीठं यस्याः सा । आसनायै इति ॥ भग ऐश्वर्यं अस्या अस्तीति सा । भगवत्यै इति ॥ पद्मनाभस्य विष्णोः सहोदरी सहजाता । सहोदर्यै इति ॥ ११६ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy