SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 सौभाग्यभास्कर-बालातपासहितम् इति भारते | वायवीयसंहितायां तु 'रुदुःखं दुःखहेतुर्वा तद्रावयति यः प्रभुः। रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ॥ इत्युक्तं स एव रूपं यस्यास्तथा । तिरोधानमाच्छादनं निरवशेषो ध्वंसः । परमाण्वादेरपि प्रकृती लयो दीपनाशतुल्यो घनतरशुद्धसतत्त्वप्रधानस्येश्वरस्य कृत्यं तत्करोतीति तिरोधानकरी । तिरस्करिण्याख्यशक्तिविशेषरूपा वा । तदुक्तं त्रिपुरासिद्धान्ते 'अभक्तानां च सर्वेषां तिरोधानकरी यतः । श्रीस्तिरस्करिणी तस्मात्प्रोक्ता सत्यं वरानने ॥ इति । ईश्वरपदेन घनतरशुद्धसत्वप्रधान ईश्वर उच्यते । ईश्वरपदस्य मायाया इव तादृशसत्त्वगुणस्यापि शक्यतावच्छेदकत्वेनानेकार्थत्वात् । तदभिन्नत्वादीश्वरी । 'वनोरचेति डीप् | वस्तुत: 'स्थेशभासे ति वरचि गौरादित्वान्डीप् । अश्नोतेर्वा वरट् इच्चोपधायाः टित्वान्डीप् । पराहन्तेवैश्वरत्वं तद्वतीत्यर्थः । उक्तञ्च विरूपाक्षपञ्चाशिकायां विश्वशरीरस्कन्धे 'ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता चेति । एते चाहन्तायाः पर्यायाः सद्भिरुच्यन्तः ॥ इति । सदाशिवानुग्रहदा पञ्चकृत्यपरायणा ॥ ११५॥ ___ विरलतरशुद्धसत्त्वप्रधान ईश्वरः सदाशिवस्तदभेदात्सदाशिवा | अदन्तत्वाट्टाप् । अनुग्रहो निरवशेषध्वंसमापन्नस्य जगतः सृष्ट्यादौ पुनः परमाण्वादिरूपतापत्ति: । सा च तावदुक्तविधस्येश्वरस्य कृत्यं तद्ददाति कुरुत इत्यनुग्रहदा । तिरोधानानुग्रहौ बन्धमोक्षौ वा । एतत्पक्षे बहिरन्तरुन्मेषनिमेषलक्षणयोरीश्वरसदाशिवयोरेतत्प्रदत्वं स्वारसिकं भवति । पञ्चविधानामुक्तरूपाणां कृत्यानां परायणम् आश्रयस्तेषु तत्परा वा । तान्यभीष्टानि यस्या इति वा । 'परायणमभीष्टं स्यात्तत्पराश्रययोरपीति विश्वः । उक्तञ्च मृगेन्द्रसंहितायाम् 'जगज्जन्मस्थितिध्वंसतिरोधानैककारणम्। भूतभौतिकभावानां नियमस्यैतदेव हि ॥ सदाशिवा अनुग्रहकर्तृरूपा । शिवायै इति । अनुग्रह: तिरोहितस्य जगतः सृष्टेरादौ प्राथमिकव्यापाररूपः । तं ददाति कुरुते इति सा | अनुग्रहदायै इति ॥ पञ्चसूक्तेषु सृष्ट्यादिकृत्येषु परायणा तत्परा । परायणायै इति ॥ ११५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy