SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 123 इति । पञ्चमदशापन्नस्य स्वरूपकथनाय सूत्रत्रयम्- 'शरीरवृत्तिव्रतम् । कथा जपः । दानमात्मज्ञानमिति । स्वात्मानुसन्धानरूपशिवपूजासाधनत्वाच्छरीरधारणं व्रतरूपं न तुच्छम् । अतएव भट्टोत्पलेन शरीरधारणं प्रार्थितम् 'अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम्। भवत्पूजोपभोगाय शरीरमिदमस्तु मे ॥ इति । स्वैराभिलापमानं जपः । तच्चित्तस्य सत्यग्राहित्वात् । तदुक्तं योगसूत्रद्वये'निर्विचारवैशारोऽध्यात्मप्रसादः , ऋतम्भरा तत्र प्रज्ञेति । 'यद्धि मनसा ध्यायति तद्वाचा वदतीति श्रुत्या तदुक्तेः सर्वस्या अपि यथार्थरूपत्वेन मन्त्ररूपत्वात् । तदुक्तं योगवासिष्ठे 'सदा सन्तोऽभिगन्तव्या यद्यप्युपदिशन्ति नो। या हि स्वैरकथास्तेषामुपदेशा भवन्ति ता॥' इति । परेभ्य आत्मोपदेश एव दानम् । तदुक्तं कृष्णदासेन 'प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः । यत्तज्ज्ञानं तदेवास्य दानं यत्तेन दीयते ॥ इति । एतत्सूत्रत्रयमुपलक्षणपरत्वेन व्याख्येयमिति मन्वानरुक्तं भगवत्पादैः- 'जपो जल्पः शिल्पं सकलमपि मुद्राविरचन'मित्यादि । वार्तिकऽपि 'इति प्रोक्तं व्रतं कुर्वअपं चर्यां च पालयन् । शिवतुल्यः सदा स्वात्मा शिवाराधनतत्परः॥ अयमेव महायोगी महामन्त्रधुरन्धरः। अन्तेवासिजनस्यान्तस्तत्वतस्तत्वबोधकः ॥ इति । एवमविद्यावशीकृतस्य जीवस्य पाञ्चविध्यमुक्त्वा वशीकृतमायावच्छिन्नस्येश्वरस्य कृत्यभेदेन तथात्वमाह सृष्टिकर्ती ब्रह्मरूपा गोत्री गोविन्दरूपिणी ॥ ११४ ॥ सृष्टीत्यादिना | आचार्यभगवत्पादैरयमर्थो 'जगत्सूते धातेति श्लोके निरूपितः । सृष्टिर्जगन्निर्माणं रजोगुणप्रधानस्येश्वरस्य कृत्यम् । तस्य की । ब्रह्मा चतुर्मुखस्तादृश ईश्वरः स एव रूपं यस्याः। तदुक्तं विष्णुपुराणे-'ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना सृष्टे: जगन्निर्माणस्य की । कञ्चँ इति ॥ अत एव ब्रह्मा विधाता, स: रूपं यस्याः सा । रूपायै इति ॥ गोप्वी रक्षणक: । गोप्य इति ॥ अत एव गोविन्दः विष्णुः रूपं अस्याः । रूपिण्यै इति ॥ ११४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy