________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
121
सौभाग्यभास्कर-बालातपासहितम् दिवसाभिन्नां देवीं यो वेदेत्यादि । विगतो देहो यस्य स विदेहोऽनङ्गः कामेशस्तत्सम्बन्धिनी वैदेही कामेश्वरी अहोरात्राभिन्नैः पञ्चदशभिर्वर्णेरिमां पञ्चदशी विद्यां जनयामास । तथा च श्रुतिः- 'जनको ह वैदेहोऽहोरात्रैः समाजगामेति । इयमेव च मधुकर्तृत्वात्सरघा । 'सरघा मधुमक्षिकेत्यमरः । श्रुति रपि- 'इयं वाव सरघा तस्या अग्निरेव सारघंमध्वितीत्यलं विस्तरेण । जागराख्यावस्थालक्षणमुक्तमीश्वरप्रत्यभिज्ञायाम्
'सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ।
सृष्टिः साधारणी सर्वप्रथात्मायं स जागरः ॥ इति । तद्वान् जागरी विश्वाख्यः स्थूलशरीराभिमानी जीवः । तदभिन्ना जागरिणी । 'ऋग्नेभ्यो डीप' । स्वप्नलक्षणमपि प्रत्यभिज्ञायाम्
'मनोमात्रपथेऽध्यक्षविषयत्वेन विभ्रमात् ।
स्पष्टावभासभावानां सृष्टिः स्वप्रपदं मतम् ॥ इति । स्वपितीति स्वपन् स्वप्नदशापन्नस्तैजसाख्य: सूक्ष्मशरीरव्यष्ट्यभिमानी जीव: तदभिन्ना स्वपन्ती । 'उगितश्चेति डीप् । तैजसा उक्तलक्षणा जीवास्तत्समष्टिभूतो हिरण्यगर्भ आत्मा स्वरूपं यस्याः सा तैजसात्मिका ॥ ११३ ॥
सुप्ता प्राज्ञात्मिका तुर्यासुप्तं सम्मदावस्था । तल्लक्षणं च शिवसूत्रे- 'अविवेको माया सौषुप्त'मिति । "सुखमहमस्वाप्सं न किञ्चिवेदिष'मिति स्मरणान्यथानुपपत्त्या कल्पितास्तिस्रोऽविद्यावृत्तयोऽज्ञानाहन्तासुखविषयिण्यः सन्ति यत्र तत्सौषुप्तमित्यर्थः । तद्वान्प्राज्ञाख्य कारणशरीरव्यष्ट्यभिमानी जीव: सुप्तः । अर्श आदिभ्योऽच्। तदभिन्ना सुप्ता । प्राज्ञा उक्तलक्षणा जीवास्तत्समष्टिभूत ईश्वर आत्मा स्वरूपं यस्याः सा प्राज्ञात्मिका । एतदवस्थात्रयस्य तद्भोक्तॄणांञ्च विविच्य ज्ञानजन्यः शुद्धविद्योदयाख्यश्चमत्कारस्तुर्यावस्था । तदुक्तं स्पन्दशास्त्रे
'त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ।
विद्यात्तदुभयं यस्तु स भुजानो न लिप्यते ॥ इति । वरदराजेनापि
'तुर्य नाम परं धाम तदाभोगश्चमक्रिया।
भेदेऽपि जागृदादीनां योगिनस्तस्य सम्भवेत् ॥ सुप्ता सुषुप्त्यवस्थाभिमनिनी । सुषुप्तायै इति ॥ प्राज्ञः व्यष्टिकारणोपाध्युपहितं चैतन्यम् । तदात्मा स्वरूपे (पं) यस्याः सा । आत्मिकायै इति ॥ जाग्रदाद्यवस्थात्रयानुस्यूतं चैतन्यं तुर्या तुरीय त्रिषु सन्ततं इत्युक्तेः । तद्रूपा | तुर्यायै इति ||
For Private and Personal Use Only