SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 सौभाग्यभास्कर-बालातपासहितम् इति । देवीभागवतेऽपि प्रथमस्कन्धे 'वटपत्रशयानाय विष्णवे बालरूपिणे । श्लोकार्धेन तदा प्रोक्तं भगवत्याखिलार्थदम् ॥ सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् । इति । अथवा साक्षाद्ब्रह्मणो जीवभावोऽत्यन्तं नीचं रूपमिति शुनकतुल्यत्वम् । अत एव नीचसेवात्मकवृत्ते: श्ववृत्तिरिति संज्ञा । नीचतर: पशुभाव इति यावत् । तादृशं स्वरूपं विगतं यस्याः प्रसादात्सा विश्वरूपा । अथवा षोडशकलात्मिका त्रिपुरसुन्दरीत्यविवादम् । तदुक्तं वासनासुभगोदये दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैव तु । षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी ॥ इति । चन्द्रमण्डले हि सादाख्या कला वृद्धिह्रासरहितैका । अन्याः पञ्चदश यातायातभागिन्यः । तदभिन्नायाः श्रीदेव्या अपि चिद्रूपा कला त्रिपुरसुन्दरीपदवाच्यैका । अन्यास्तु कामेश्वर्यादिचित्रान्तास्तिथिभेदेन विपरिवर्तमानाः । तदभिन्नायां पञ्चदश्यामप्येकमक्षरं गुरुमुखैकवेद्यं चिद्रूपं यद्वशादस्याः श्रीविद्येति संज्ञा । अन्यानि च पञ्चदशाक्षराणि सर्वैरुपासकैः श्रूयमाणानि नित्यास्वरूपाणि । एवं चन्द्रमण्डलदेवीपञ्चदशीनामैक्यमिति तत्तत्कलाक्षराणामप्यैक्यमेव । अत एव पञ्चदशसंख्यानां तिथीनामक्षराणामपि त्रिखण्डत्वं यथा-नन्दा भद्रा जया रिक्ता पूर्णेति त्रिरावृत्तेन भेदेन वाग्भवादिकूटभेदेन च । अत एव खण्डत्रयेणैव तैत्तिरीयाः शुक्लपक्षरात्रीणां पञ्चदशानां नामान्यामनन्ति । 'दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना । आप्यायमानाप्यायमानाप्यायसूनृतेरापूर्यमाणापूर्यमाणा पूरयन्ती पूर्णा पौर्णमासीति । एवमेतद्दिवसानामपि खण्डत्रयेणैव नामान्याम्नायन्ते । 'संज्ञानं विज्ञानं प्रज्ञानं जानदभिजानत् । सङ्कल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लृप्तं क्लृप्तं श्रेयोवसीय आयत्सम्भूतं भूत मिति । अनयोरनुवाकयोश्च दिवसरात्रिनामत्वमित्यपि तत्रैवाम्नातम् । 'संज्ञानं विज्ञानं दर्शा दृष्टे'त्येतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानीति । अत्र यद्यपि खण्डत्रयमपि समानसंख्यमेव तथाप्येकादश्या दशमीवेधे दशमीत्वात् 'उपोष्या द्वादशी शुद्धे ति वचनाद्द्वादश्या एवैकादशीत्वाच्चरमखण्डान्तर्गततिथेमध्यमखण्डे प्रवेशान्मन्त्रे द्वितीयतृतीयखण्डौ षट्चतुरक्षरौ भवतः । अत एव वेधाभावपक्षाभिप्रायेण सूर्यादिविद्यान्तरेषु समानाक्षराण्येव त्रीणि कूटानि । अनेनैवाशयेन सुभगोदयटीकायां लल्लेनोक्तम् । 'आपूर्यमाणायाः कलायाश्चन्द्रखण्डान्तःस्थिताया अपि सौरखण्डेऽन्तर्भावः । इराकलाप्रभेदत्वादिरापूर्यमाणयोरैक्यमनुसन्धेय मिति। उक्तश्लोके दर्शाद्या इति पदस्य शुक्लप्रतिपदाद्या इत्यर्थः । उदाहृत श्रुतौ प्रतिपदो दर्शनामकत्वोक्तेः तासां तिथीनां For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy