SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 ललितासहस्रनामस्तोत्रम् व्यष्टिभूतैः स्थूलभूतोपाधिभि: सूक्ष्मभूतोपाधिभिः कारणोपाधिभिश्चोपहितं चैतन्यं क्रमेण विश्वतैजसप्राज्ञपदवाच्यं भवति । समष्टिभूतैस्तैरुपहितं तु तत्त्वं क्रमेण वैश्वानरहिरण्यगर्भेश्वरपदवाच्यम् । अन्तःकरणकारणोपहित: परमात्मा हिरण्यगर्भः । प्राणकारणोपहितस्तु सूत्रात्मा । उभाभ्यां कारणाभ्यामविभक्ताभ्यामनुगमय्योपहितस्त्वन्तर्यामीत्युच्यते । एते त्रय एव ब्रह्मविष्णुरुद्रपदैः क्रमादभिधेया भवन्ति । एतच्च व्यष्टिजीवात्मसमष्टिजीवात्मपरमात्मनां प्रातिस्विकं त्रैविध्यमौपनिषदानां मतमवलम्ब्योक्तम् । तेषामन्ते जाग्रत्स्वप्नसुषुप्तीनामवस्थानां सृष्टिस्थितिसंहाराणां कृत्यानां च त्रयस्य त्रयस्यैवाङ्गीकारात् । तान्त्रिकाणां मते तु तुर्यतुर्यातीतयोरवस्थयोस्तिरोधानानुग्रहयोः कृत्ययोश्च द्वयोर्द्वयोराधिक्येन तदवस्थाकृत्यापन्नयोर्जीवपरमात्मनोरप्याधिक्यात्प्रातिस्विकं पाञ्चविध्यम् । न चैतावता वैमत्यम्, त्रिवृत्करणपञ्चीकरणप्रक्रिययोरिव स्थूलसूक्ष्मदृष्टिभेदेन व्यवस्थोपपत्तेः । परन्तु सुषुप्तावेव प्राज्ञस्य ब्रह्मभावसम्पत्त्या तदतीतावस्थाद्वयापन्नस्यात्मनो न जीवभावः । अविद्यालेशानुवृत्तेः सत्वाच्च न परमात्मभावोऽपि । अत एव सुषुप्तिदशापन्नजीवोपाधे: कारणशरीरत्वेनेव तुर्यदशापन्नजीवोपाधेर्महाकारणशरीरत्वेन व्यवहारः 'तत्परश्च शिवतुल्यो जायत' इति शिवसूत्रे तादृशः शिवतुल्यत्वेन निर्दिष्ट: । अर्धसाम्यादर्धशिव इति तदर्थः । अत एव च ततोऽपि परस्य 'निरञ्जनः परमं साम्यमुपैतीति श्रुतावभेदस्य परमसाम्यपदेन निर्देश उपपद्यते । अनेनैवाशयेन पूर्णजीवतायाः पूर्वशिवतायाश्च तद्दशायामभावान्न पृथग्गणनमौपनिषदानाम् । अत एव 'मुग्धेऽर्धसम्पत्तिः परिशेषा'दित्यधिकरणे मूर्छावस्थायाः पार्थक्येन गणनाभावेऽयमेव हेतुस्तैरुपन्यस्तः । अस्त्येव वा गणनं पञ्चविधजीवोपाधीनां पञ्चकोशपदैर्व्यवहारदर्शनात् । परमात्मनस्तु तिरोधानानुग्रहापरयर्यायबन्धमोक्षदानोपाधिकत्वेन 'ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिव' इति शैवतन्त्रोक्तलक्षणानुसारेण रुद्रात्परतो भेदद्वयमक्षुण्णम् । एवं सति विश्वे स्थूलभूतोपहितजागरावस्थापनचैतन्यात्मका जीवास्तत्समष्टिभूतो वैश्वानरो रूपं चैतन्यदृष्ट्यात्मैव यस्याः सा विश्वरूपेत्यर्थः । यद्वा पूर्वं धर्मधर्मिभावविवर्जितेत्युक्तं तेन जगदभेद: सिद्ध इत्याह विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ११३ ॥ विश्वरूपेति । विश्वमेव यस्या रूपं न तु विश्वाधारत्वेन धर्मिभूतमन्यद्रूपमस्तीत्यर्थः । तदुक्तं विष्णुपुराणे 'यथा हि कदलीनाम त्वक्पत्रान्या न दृश्यते । एवं विश्वस्य नान्यत्वं त्वत्स्थादीश्वर दृश्यते ॥ विश्वः व्यष्टिस्थूलोपाध्युपहितं चैतन्यं तद्रूपं यस्याः सा । रूपायै इति || जागरः ब्राह्मेन्द्रियविलास अस्या अस्तीति सा | जागरिण्यै इति ॥ स्वपन्ती स्वप्नदशाभिमानि [नी] | स्वपन्त्यै इति ॥ तेजसः व्यष्टिसूक्ष्मोपाध्युपहितं चैतन्यम् । तदात्मा स्वरूपं यस्याः सा । आत्मिकायै इति || ११३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy