________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
ललितासहस्रनामस्तोत्रम् च पञ्च ब्रह्मस्वरूपाणी'त्युक्त्वा तेषामाकाशादिपञ्चमहाभूतजनकत्वमुक्तम् । तादृशस्वरूपवतीत्यर्थः । यज्ञवैभवखण्डेऽप्युक्तम्
'एक एव शिवः साक्षात्सत्यज्ञानादिलक्षणः ।
विकाररहितः शुद्धः स्वशक्त्या पञ्चधा स्थितः ॥ इति । सृष्टिस्थित्यादिपञ्चकृत्यशक्तिभिः सद्योजातादिपञ्चरूपो जात इत्यर्थः । गरुडपुराणेऽपि--
'लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः । वासुदेवस्य रूपेण तथा सङ्कर्षणेन च ॥ प्रधुम्नाख्यस्वरूपेणाऽनिरुद्धाख्येन च स्थितः।
नारायणस्वरूपेण पञ्चधा ह्यद्वयस्थितः ॥' इति । आचार्यैरप्युक्तम्
'पुंभावलीला पुरुषास्तु पञ्च यादृच्छिकं संलपितं त्रयी ते । अम्ब त्वदक्ष्णोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दुः ॥ इति ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ११२ ॥ चिदभेदाच्चिन्मयी । परम उत्कृष्ट आनन्दा स्या: स्वरूपं सा । 'यो वै भूमा तत्सुखम्' इति श्रुतेः । विज्ञानं चैतन्यमेव घन सान्द्रं तदेकरसं रूपमस्याः । 'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाये ति श्रुतौ विज्ञानघनपदस्य चिदेकरसपरत्वेन व्याख्यानदर्शनात् । अथवा विज्ञानशब्दो जीवपरः । 'यो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयती'त्याद्यन्तर्यामिब्राह्मणे तथा व्याख्यानात् । तैर्घनं समष्ट्यात्मकं रूपमस्याः । ष्ट्यभिमानिहिरण्यगर्भात्मिकेत्यर्थः । 'एतस्माज्जीवघना दिति श्रुतौ जीवघनपदस्य तथा व्याख्यानात् ॥ ११२॥
___ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता । ध्यै चिन्तायाम्' । चिन्ता मानसं ज्ञानं 'प्रत्ययैकतानता ध्यान'मीति योगसूत्रोक्तम् । ज्ञानज्ञातृज्ञेयाख्यत्रिपुटीरूपेत्यर्थः । इष्टानिष्टप्रापके कर्मणी धर्माधर्मों । तदुक्तं मत्स्यपुराणे
'धर्मेति धारणे धातुमहत्त्वे वै प्रपद्यते ।
धारणेन महत्त्वेन धर्म एव निरुच्यते ॥ चिन्मयी चिदभिन्ना । चिन्मय्यै इति ॥ परम उत्कृष्ट आनन्दो यस्या: सा । आनन्दायै इति ॥ विज्ञानं चैतन्यमेव घनं एकरसं रूपं यस्याः सा | रूपिण्यै इति ॥ ११२ ॥
ध्यानं प्रत्ययैकतानता ध्याता तत्कर्ता ध्येयं तद्विषयः । एतेषां रूपं यस्याः सा । रूपायै इति ॥ धर्माधर्माभ्यां पुण्यपापाभ्यां वर्जिता रहिता । शास्त्रस्याविद्वद्विषयत्वात् । वर्जितायै इति ।
For Private and Personal Use Only